SearchBrowseAboutContactDonate
Page Preview
Page 305
Loading...
Download File
Download File
Page Text
________________ २८२ श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां ढुण्ढिकायां । [सुभ्राता] शोभनो भ्राता अस्य = सुभ्राता । प्रथमा सि । 'ऋदुशनस्-पुरुदंशोऽनेहसश्च सेर्डाः' (१।४।८४) सि० → डा० । 'डित्यन्त्यस्वरादेः' (२।१११४) ऋलोपः । [कल्याणभ्राता] कल्याणो भ्राता अस्य = कल्याणभ्राता । प्रथमा सि । 'ऋदुशनस्०' (१।४।८४) सि० → डा० । 'डित्यन्त्यस्वरादेः' (२।१।११४) ऋलोपः । [प्रियभ्राता] प्रिया भ्रातरोऽस्य = प्रियभ्राता । प्रथमा सि । 'ऋदुशनस्-पुरुदंशोऽनेहसश्च सेर्डाः' (१।४।८४) सि० → डा० । 'डित्यन्त्यस्वरादेः' (२।१।११४) ऋलोपः । [बहुभ्राता] बहवो भ्रातरोऽस्य = बहुभ्राता । प्रथमा सि । 'ऋदुशनस्०' (१।४।८४) सि० → डा० । 'डित्यन्त्यस्वरादेः' (२।१।११४) ऋलोपः । [सुमातृकः] शोभना माता अस्य = सुमातृकः । 'ऋन्नित्यदितः' (७।३।१७१) कच्समासान्तः → क। [मूर्खभ्रातृकः ] मूर्यो भ्राता अस्य = मूर्खभ्रातृकः । 'ऋन्नित्यदितः' (७।३।१७१) कच्समासान्तः → क ॥छ।। नाडी-तन्त्रीभ्यां स्वाते ॥ ७।३।१८० ॥ [ नाडीतन्त्रीभ्याम्] नाडी च तन्त्री च = नाडीतन्त्र्यौ, ताभ्याम् = नाडीतन्त्रीभ्याम् । पञ्चमी भ्याम् । [स्वाङ्गे] स्वाङ्ग सप्तमी ङि । [बहुनाडिः कायः] नाडि 'इतोऽक्त्यर्थात्' (२।४।३२) ङी । 'समानानां तेन दीर्घः' (१।२।१) दीर्घः । बढ्यो नाड्योऽस्मिन् = बहुनाडिः कायः । 'गोश्चान्ते०' (२।४।९६) हुस्वः । [बहुतन्त्रीीवा] बढ्यस्तन्त्र्योऽस्यामिति बहुतन्त्रीीवा । प्रथमा सि । 'सो रु:' (२।१।७२) स० → र० । तन्त्रीर्धमनिः । याद्यन्ताभावात् हुस्वो न भवति । [बहुनाडीकः, स्तम्बः] बढ्यो नाड्योऽस्य = बहुनाडीकः स्तम्बः । 'शेषाद् वा' (७।३।१७५) कच्समासान्तः → क। [बहुतन्त्रीका वीणा ] बढ्यस्तन्त्र्योऽस्य = बहुतन्त्रीका वीणा । 'शेषाद् वा' (७।३।१७५) कच्समासान्तः → क। 'आत्' (२।४।१८) आप्प्र० → आ ॥छ।। निष्प्रवाणिः ॥ ७।३।१८१ ॥ [निष्प्रवाणिः] निष्प्रवाणि प्रथमा सि । 'सो रुः' (२।१।७२) स० → र० । __ [निष्प्रवाणिः कम्बलः, पटो वा] 'वेंग् तन्तुसन्ताने' (९९२) वे । 'आत् सन्ध्यक्षरस्य' (४।२।१) वा, प्रपूर्व० । प्रोयतेऽस्यामिति प्रवाणिः । 'का-वा-वी-क्री-श्रि-श्रु-क्षु-ज्वरि-तूरि-चूरि-पूरिभ्यो णिः' (उणा० ६३४) णिप्र० । 'इतोऽक्त्यर्थात्' (२।४।३२) ङी । निर्गता प्रवाणी तन्तुवायशलाका यस्मादिति निष्प्रवाणिः कम्बलः पटो वा । अनेन निपातः । प्रथमा सि । 'सो रुः' (२।१।७२) स० → र० । तन्त्रादचिरोद्धृत इत्यर्थः । [निष्प्रवाणिः सदश] 'वेंग तन्तुसन्ताने' (९९२) वे । 'आत् सन्ध्यक्षरस्य' (४।२।१) वा । ऊयतेऽस्यामिति वानिः । 'वी-यु-सु-वह्यगिभ्यो निः' (उणा० ६७७) निप्र० । 'सदि-वृत्यमि-धम्यश्यटि-कट्यवेरनिः' (उणा० ६८०) अनिप्र० वा । प्रसृ(भृ)ता वानिः = प्रवाणिः । सा निर्गता तन्तुभ्योऽस्येति निष्प्रवाणिः । 'गोश्चान्ते०' (२।४।९६) हस्वः ॥छ।। Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004232
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 07
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2014
Total Pages450
LanguageHindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy