________________
सप्तमाध्यायस्य तृतीयः पादः ॥
२८१
[श्वेताश्वतरिः स्त्री पुरुषो वा] हसितोऽश्वोऽश्वतरः । 'वत्सोक्षा-ऽश्वर्षभाद्धासे पित्' (७।३।५१) तरट्प्र० → तर । 'अणजेयेकण-नञ्-स्नञ्-टिताम्' (२।४।२०) ङी । श्वेता अश्वतरी यस्य यस्याः वा = श्वेताश्वतरिः । 'गोश्चान्ते.' (२।४।९६) हुस्वः, स्त्री पुरुषो वा ॥छ।।
ईयसोः ॥ ७।३।१७७ ॥ [ईयसोः] ईयसु पञ्चमी ङसि । 'ङित्यदिति' (१।४।२३) ओ । 'एदोद्भ्यां ङसि-ङसो रः' (१।४।३५) ङसिस्थाने र० ।
[बहुश्रेयान् ] बहवः श्रेयांसो यस्य, अथवा बहूनि श्रेयांसि यस्य = बहुश्रेयान् । प्रथमा सि । 'ऋदुदितः' (१।४।७०) नोऽन्तः । 'स्महतोः' (१।४।८६) दीर्घः । 'दीर्घयाब०' (१।४।४५) सिलुक् । 'पदस्य' (२।१२८९) सलुक् ।
[बहुप्रेयान्] बहूनि प्रेयांसि यस्य = बहुप्रेयान् । प्रथमा सि । 'ऋदुदितः' (१।४।७०) नोऽन्तः । 'न्स्महतोः' (१।४।८६) दीर्घः । 'दीर्घझ्याब' (१।४।४५) सिलुक् । 'पदस्य' (२।११८९) सलुक् ।
'नामग्रहणे लिङ्गविशिष्टस्यापि ग्रहणम्' (न्या०वक्ष०(१)/सूत्र(१६)) इति न्यायात्[बहुश्रेयसी] बढ्यः श्रेयस्योऽस्याः = बहुश्रेयसी । प्रथमा सि । 'दीर्घङ्याब्०' (१।४।४५) सिलुक् । [ बहुप्रेयसी ] बढ्यः प्रेयस्योऽस्याः = बहुप्रेयसी । प्रथमा सि । 'दीर्घयाब्०' (१।४।४५) सिलुक् ॥छ।।
सहात् तुल्ययोगे ॥ ७।३।१७८ ॥ [सहात् ] सह पञ्चमी ङसि । [तुल्ययोगे] तुल्यश्चासौ योगश्च = तुल्ययोगस्तस्मिन् । तुल्ययोगो वर्तिपदार्थस्य पुत्रादेर्वृत्त्यर्थेन पित्रादिना सह क्रियागुणजातिद्रव्यैः साधारणः सम्बन्धः । [सपुत्र आगतः] सह पुत्रेण आगतः = सपुत्र आगतः । 'सहस्य सोऽन्यार्थे' (३।२।१४३) सहस्य सभावः । [सपुत्रः स्थूलः ] पुत्रेण सह वर्त्तते = सपुत्रः स्थूलः । [ सपुत्रो ब्राह्मणः] सह पुत्रेण वर्त्तत इति सपुत्रो ब्राह्मणः । [सपुत्रो गोमान्] सह पुत्रेण वर्तत इति सपुत्रो गोमान् ।
[श्वेताश्वको देवदत्त आगतः] श्वेतोऽश्वोऽस्य = श्वेताश्वको देवदत्तः । प्रथमा सि । आगतः । कच्समासान्तः → क। प्रथमा सि । 'सो रुः' (२।१।७२) स० → र० । . [सलोमकः] सह विद्यमानानि लोमान्यस्य = सलोमकः । 'शेषाद् वा' (७।३।१७५) कच्समासान्तः → क। [सपक्षकः] सह विद्यमाना: पक्षा अस्य = सपक्षकः । 'शेषाद् वा' (७।३।१७५) कच्समासान्तः → क । [सकर्मकः] सह विद्यमानानि कर्माण्यस्य = सकर्मकः । 'शेषाद् वा' (७३।१७५) कच्समासान्तः → क ॥छ।।
भ्रातुः स्तुतौ ॥ ७।३।१७९ ॥ [भ्रातुः] भ्रातृ पञ्चमी ङसि । [स्तुतौ] स्तुति सप्तमी ङि ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org