SearchBrowseAboutContactDonate
Page Preview
Page 303
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां दुण्डिकायां । [ अपार्थम्, अपार्थकम् ] अपगतोऽर्थोऽस्य = अपार्थम्, अपार्थकम् । 'शेषाद् वा' (७।३।१७५) कच्समासान्तः → क । सि-अम् । २८० [ शेषात् ] शेष पञ्चमी ङसि । [वा ] वा प्रथमा सि । शेषाद् वा ॥ ७।३।१७५ ॥ [ बहुखट्वकः, बहुखट्वः ] बह्व्यः खट्वा अस्मिन् = बहुखट्वकः । अनेन कच्समासान्तः क । 'नवाऽऽपः ' (२|४|१०६) ह्रस्वत्वम् । एवम् - बहुखट्वः । 'गोश्चान्ते० ' (२४ ९६ ) ह्रस्वः । [ बहुमालकः, बहुमाल: ] बहव्यो माला अस्य = बहुमालकः । अनेन कच्समासान्तः → (२|४|१०६) ह्रस्वत्वम् । द्वितीये सर्वत्र 'गोश्चान्ते० ' (२।४।९६) ह्रस्वो ज्ञातव्यः । [ बहुवीणकः, बहुवीणः ] बह्व्य वीणा अस्य = बहुवीणकः । अनेन कच्समासान्तः → क । 'नवाऽऽपः ' (२|४|१०६) ह्रस्वः । [ प्रियपथः ] प्रियः पन्था अस्य = प्रियपथः । 'ऋक् - पूः - पथ्यपोऽत्' (७|३|७६) अत्समासान्तः →. अ । 'नोऽपदस्य तद्धिते' (७|४|६१) अन्लुक् । [ प्रियधुरः] प्रिया धूरस्य = प्रियधुरः । 'धुरोऽनक्षस्य ' ( ७।३।७७) अत्समासान्तः → अ । [ व्याघ्रपाद् ] व्याघ्रस्येव पादावस्य = व्याघ्रपाद् । 'पात् पादस्याऽहस्त्यादेः' (७।३।१४८) पादस्य पाद्देशः । प्रथमा सि । 'दीर्घङ्याब्०' (१।४।४५) सिलुक् । क । 'नवाऽऽपः ' [सिंहपाद् ] सिंहस्येव पादावस्य = सिंहपाद् । 'पात् पादस्याऽहस्त्यादेः' (७|३|१४८) पादस्य पाद्देशः । प्रथमा सि । 'दीर्घङ्याब्०' (१।४।४५) सिलुक् ॥ छा । न नाम्नि ॥ ७।३।१७६ ॥ Jain Education International [न] न प्रथमा सि । 'अव्ययस्य' (३।२७) सिलुप् । [ नाम्नि ] नामन् सप्तमी ङि । [ बहुदेवदत्तः ] बहवो देवदत्ता यस्य = बहुदेवदत्तः । अनेन कच्निषेधः । [विश्वदेवदत्तः ] विश्वे देवदत्ता यस्य = विश्वदेवदत्तः । अनेन कच्निषेधः । [ बहुविष्णुमित्र: ] बहवो विष्णुमित्रा यस्य = बहुविष्णुमित्र: । अनेन कनिषेधः । [ विश्वविष्णुमित्र ] विश्वे विष्णुमित्रा यस्य = विश्वविष्णुमित्रः । अनेन कनिषेधः । एवंनामानो ग्रामाः । [विश्वदेवः ] विश्वे देवः । [विश्वयशाः ] विश्वस्मिन् यशोऽस्य विश्वयशाः । प्रथमा सि । 'अभ्वादेरत्वसः सौ' (१।४।९०) दीर्घः । 'दीर्घङ्याब्०' (१।४।४५) सिलुक् । एवंनामानौ पुरुषौ । [ पद्मश्रीः] पद्म श्रीर्यस्य = पद्मश्रीः । एवंनामा स्त्री । = For Personal & Private Use Only www.jainelibrary.org
SR No.004232
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 07
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2014
Total Pages450
LanguageHindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy