________________
सप्तमाध्यायस्य तृतीयः पादः ॥
२७९
[प्रियमधुकः] प्रियं मधु अस्य = प्रियमधुकः । अनेन कच्समासान्तः → क ।
[प्रियोपानत्कः] प्रिया उपानहो यस्य = प्रियोपानत्कः । अनेन कच्समासान्तः → क । 'नहाहोर्ध-तौ' (२।१।८५) हस्य धः । 'धुटस्तृतीयः' (२।१७६) ध० → द० । 'अघोषे प्रथमोऽशिटः' (१।३।५०) द० → त० । [प्रियशालिकः ] प्रिया शालिरस्य = प्रियशालिकः । अनेन कच्समासान्तः → क ॥छ।।
पुमनडुन्नौ-पयो-लक्ष्या एकत्वे ॥ ७।३।१७३ ॥ [पुमनडुन्नौपयोलक्ष्याः ] पुमांश्च अनड्वांश्च नौश्च पयश्च लक्ष्मीश्च = पुमनडुन्नौपयोलक्ष्मीः, तस्याः = पुमनडुन्नौपयोलक्ष्म्याः । पञ्चमी ङसि । 'संस्-ध्वंस्-क्वस्सनडुहो दः' (२।१।६८) इत्यादिना हस्य द० । 'तृतीयस्य पञ्चमे' (१।३।१) द० → न० ।।
[एकत्वे ] एकत्व सप्तमी ङि । [प्रियपुंस्कः] प्रियः पुमान् अस्य = प्रियपुंस्कः । अनेन कच्समासान्तः → क । 'पुंसः' (२।३।३) सः ।
[प्रियानडुत्कः] प्रियो अनड्वान यस्य = प्रियानडुत्कः । अनेन कच्समासान्तः → क। 'संस्-ध्वंस्-क्वस्सनडुहो दः' (२।१६८) हस्य द० । 'अघोषे०' (१३५०) द० → त० ।
[प्रियनौकः] प्रिया नौर्यस्य = प्रियनौकः । अनेन कच्समासान्तः → क। [प्रियपयस्कः] प्रियं पयोऽस्य = प्रियपयस्कः । अनेन कच्समासान्तः → क । 'प्रत्यये' (२।३।६) रस्य सः । [प्रियलक्ष्मीकः ] प्रिया लक्ष्मीरस्य = प्रियलक्ष्मीकः । अनेन कच्समासान्तः → क ।
[द्विपुमान्, द्विपुंस्कः] द्वौ पुमांसावस्य = द्विपुमान्, द्विपुंस्कः । 'शेषाद् वा' (७।३।१७५) इत्यनेन विकल्पे कच्समासान्तः → क । पक्षे यथाप्राप्तम् ।
[ बह्वनड्वान्, बह्वनडुत्कः] बहवोऽनड्वाहोऽस्य = बह्वनड्वान्, बह्वनडुत्कः । 'शेषाद् वा' (७।३।१७५) इत्यनेन विकल्पे कन्समासान्तः → क । पक्षे यथाप्राप्तम् ।
[बहुनौः, बहुनौकः] बढ्यो नावोऽस्य = बहुनौः, बहुनौकः । 'शेषाद् वा' (७।३।१७५) इत्यनेन विकल्पे कच्समासान्तः → क । पक्षे यथाप्राप्तम् ।
[बहुपयाः, बहुपयस्कः ] बहूनि पयांस्यस्य = बहुपयाः, बहुपयस्कः । 'शेषाद् वा' (७।३।१७५) इत्यनेन विकल्पे कच्समासान्तः → क । पक्षे यथाप्राप्तम् ।
[बहुलक्ष्मीः , बहुलक्ष्मीकः] बढ्यो लक्ष्योऽस्य = बहुलक्ष्मीः, बहुलक्ष्मीकः । 'शेषाद् वा' (७।३।१७५) इत्यनेन विकल्पे कच्समासान्तः → क। पक्षे यथाप्राप्तम् ।
[सलक्ष्मीको विनाशितः] सह लक्ष्म्या वर्तत इति सलक्ष्मीको विनाशितः । मतान्तरे कच् । 'सहात् तुल्ययोगे' (७।३।१७८) निषेधं नाद्रियन्ते, स्वमते तु 'सहात् तुल्ययोगे' (७।३।१७८) इति निषेधात् कच् न भवति ॥छ।।
नोऽर्थात् ॥ ७।३।१७४ ॥ [नञोऽर्थात् ] नञ् पञ्चमी ङसि । अर्थ पञ्चमी ङसि ।
[अनर्थकं वचः] न विद्यतेऽर्थोऽस्य = अनर्थकं वचः । अनेन कच्समासान्तः → क । सि-अम् । वचस् प्रथमा सि । 'अनतो लुप्' (१।४।५९) लुप् । 'सो रुः' (२।१७२).स० → र० ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org