SearchBrowseAboutContactDonate
Page Preview
Page 301
Loading...
Download File
Download File
Page Text
________________ २७८ श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां ढुण्ढिकायां । अनिनस्मनग्रहणान्यर्थवतानर्थकेन च तदन्तविधि प्रयोजयन्ति । [बहुस्वामिका, बहुवाग्मिका पुरी] स्वमस्यास्तीति । 'स्वामिन्नीशे' (७२।४९) मिन्प्र०-दीर्घश्च । वागस्यास्तीति वाग्मी । 'ग्मिन्' (७।२।२५) ग्मिन्प्र० । बहवः स्वामिनोऽस्यां सा = बहुस्वामिका । बहवो वाग्मिनोऽस्यां सा = बहुवाग्मिका पुरी । अनेन कच्समासान्तः → क । 'आत्' (२।४।१८) आप्प्र० → आ । पुर गौरादित्वात् ङी । [बहुदण्डी, बहुदण्डिको राजा] बहवो दण्डिनोऽस्य = बहुदण्डी । प्रथमा सि । 'इन्-हन्-पूषाऽर्यम्णः शिस्योः' (१।४।८७) दीर्घः । बहवो दण्डिनोऽस्य = बहुदण्डिको राजा । चकारो 'न कचि' (२।४।१०५) इत्यत्र विशेषणार्थः ॥छ।। ऋन्नित्यदितः ॥ ७।३।१७१ ॥ [ऋन्नित्यदितः] ऋच्च नित्यदितश्च = ऋन्नित्यदित्, तस्मात् । नित्यं दित् येभ्यस्ते = नित्यदितः । एतद्वाक्यं प्रथमं कार्यम् । [बहुकर्तकः] बहवः कर्त्तारो यस्य सः = बहुकर्तृकः । अनेन कच्समासान्तः → क । [बहुहर्तृकः ] बहवो हर्तारो यस्य सः = बहुहर्तुकः । अनेन कच्समासान्तः → क । नित्यदित् - [बहुकुमारीकः ] कुमार 'वयस्यनन्त्ये' (२।४।२१) ङी । 'अस्य इयां लुक्' (२।४।८६) अलुक् । बढ्यः कुमार्योऽस्मिन् सः = बहुकुमारीकः । अनेन कच्समासान्तः → क । 'गोश्चान्ते इस्वोऽनंशि०' (२।४।९६) ह्रस्वः । [बहुब्रह्मबन्धूको ग्रामः ] ब्रह्मा बन्धुरस्याः सा = ब्रह्मबन्धः । 'उतोऽप्राणिनश्चाऽयु-रज्ज्वादिभ्य ऊ' (२।४।७३) ऊङ् । अथवा 'बाह्वन्त-कद्रु-कमण्डलो म्नि' (२।४/७४) ऊङ् । 'समानानां०' (१।२।१) दीर्घः । बहव्यः ब्रह्मबन्ध्वोऽस्मिन् सः = बहुब्रह्मबन्धूको ग्रामः । अनेन कच्समासान्तः → क । [पृथुश्रीः, पृथुश्रीकः ] पृथ्वी श्रीर्यस्य, यद्वा पृथः श्रीर्यस्य = पृथुश्रीः, पृथुश्रीकः । 'शेषाद् वा' (७।३।१७५) विकल्पेन कच्समासान्तः → क। [लम्बभ्रूः, लम्बभ्रूकः] लम्बे ध्रुवौ अस्य = लम्बभ्रूः, लम्बभ्रूकः । 'शेषाद् वा' (७३।१७५) विकल्पेन कच्समासान्तः → क । 'वेयुवोऽस्त्रियाः' (१।४।३०) इत्यत्र विकल्पे स्त्रीत्वं ज्ञेयमनयोः शब्दयोः ।। [ बहुतन्त्रीः, बहुतन्त्रीकः ] बढ्यस्तन्त्र्योऽस्य = बहुतन्त्रीः, बहुतन्त्रीकः । मतान्तरे 'शेषाद् वा' (७।३।१७५) विकल्पेन कच्समासान्तः → क ॥छ।। दध्युरः-सर्पिर्मधूपानच्छालेः ॥ ७।३।१७२ ॥ [दध्युरःसर्पिर्मधूपानच्छालेः] दधिश्च उरश्च सर्पिश्च मधुश्च उपानच्च शालिश्च = दध्युरःसर्पिर्मधूपानच्छालि, तस्मात् । वाक्यं विविध-शब्दप्रधानं अर्थप्रधानं च, अस्मिन् पदे शब्दप्रधानं वाक्यं ज्ञेयम् । [प्रियदधिकः ] प्रियं दधि यस्य = प्रियदधिकः । अनेन कच्समासान्तः → क। [प्रियोरस्कः ] प्रियमुरो यस्य = प्रियोरस्कः । अनेन कच्समासान्तः → क । 'प्रत्यये' (२।३।६) रस्य सः । [प्रियसर्पिष्कः ] प्रियं सर्पिरस्य = प्रियसर्पिष्कः । अनेन कच्समासान्त: → क । 'नामिनस्तयोः षः' (२।३।८) रस्य षः । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004232
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 07
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2014
Total Pages450
LanguageHindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy