SearchBrowseAboutContactDonate
Page Preview
Page 300
Loading...
Download File
Download File
Page Text
________________ सप्तमाध्यायस्य तृतीयः पादः ॥ २७७ [त्रिककुत् पर्वतः] त्रीणि ककुदानि ककुदाकाराणि शिखराण्यस्य = त्रिककुत् पर्वतः । अनेन ककुदशब्दस्य अन्त्य अलुक् निपात्यते । प्रथमा सि । 'दीर्घङ्याब्' (१।४।४५) सिलुक् । 'विरामे वा' (१।३।५१) द० → त० । "गिरावि"ति सिद्धे निपातनं गिरिविशेषप्रतिपत्त्यर्थम्, तेन अन्यस्मिन् पर्वते न भवति ॥छा। स्त्रियामूधसो न् ॥ ७।३।१६९ ॥ [स्त्रियाम् ] स्त्री सप्तमी ङि । [ऊधसो न्] ऊधस् षष्ठी ङस् । न् प्रथमा सि । [कुण्डोनी] कुण्डमिव ऊधो यस्याः सा = कुण्डोध्नी । अनेन सस्य न् । 'ऊनः' (२२४७) ङी । 'अनोऽस्य' (२।१।१०८) अलुक् । __ [घटोनी ] घटवदूधोऽस्याः सा = घटोनी । अनेन सस्य न्० । 'ऊनः' (२।४।७) ङी । अनोऽस्य' (२।१।१०८) अलुक् । [पीवरोध्नी] पीवरमूधोऽस्याः सा = पीवरोध्नी । अनेन सस्य न्० । 'ऊध्नः' (२।४।७) ङी । 'अनोऽस्य' (२।१।१०८) अलुक् । [महोध्नी गौः] महत् ऊधोऽस्याः = महोनी गौः । अनेन सस्य न० । 'ऊनः' (२।४।७) ङी । 'अनोऽस्य' (२।१।१०८) अलुक् । 'जातीयैकार्थेऽच्चेः' (३।२।७०) डा० । 'डित्यन्त्यस्वरादेः' (२।१।११४) अत्लुक् । 'अवर्णस्ये.' - (१।२।६) ओ। - [महोधाः पर्जन्यः] महत् ऊधोऽस्य = महोधाः पर्जन्यः । प्रथमा सि । 'अभ्वादेरत्वसः सौ' (१।४।९०) दीर्घः । 'दीर्घङ्याब्०' (१।४५) सिलुक् । 'सो रुः' (२।१।७२) स० → र० । 'रः पदान्ते०' (१।३।५३) विसर्गः । . [प्राप्तोधा गौः] ऊधः प्राप्ता = प्राप्तोधा गौः । प्रथमा सि । 'अभ्वादेरत्वसः सौ' (१।४।९०) दीर्घः । 'सो रुः' (२।१।७२) स० → र० । 'प्राप्ताऽऽपन्नौ तयाऽच्च' (३।१।६३) इत्यादिना समासः ॥छ।। इनः कच् ॥ ७।३।१७० ॥ [इनः] इन् पञ्चमी ङसि । [कच्] कच् प्रथमा सि । [बहुदण्डिका] दण्डोऽस्यास्तीति दण्डी । 'अतोऽनेकस्वरात्' (७।२।६) इन्प्र० । 'अवर्णेवर्णस्य' (७४।६८) अलुक् । बहवो दण्डिनोऽस्यां सा = बहुदण्डिका । अनेन कच्समासान्तः → क। 'आत्' (२।४।१८) आप्प्र० → आ । - [बहुच्छत्रिका सेना] छत्रमस्त्येषां = छत्रिणः । 'अतोऽनेकस्वरात्' (७।२।६) इन्प्र० । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । बहवश्छत्रिणोऽस्यां सा = बहुच्छत्रिका सेना । अनेन कच्समासान्तः → क । 'आत्' (२।४।१८) आप्प्र० → आ । [बहुरासभराविका शाला] टुक्षु (१०८४) - 'रु शब्दे' (१०८५) रु । रुवन्ति इति राविणः । 'कर्तुणिन्' (५।१।१५३) णिन्प्र० → इन् । 'नामिनोऽकलि-हलेः' (४।३।५१) वृद्धिः औ । 'ओदौतोऽवाव्' (१।२।२४) आव् । रासभस्य राविणः = रासभराविणः । बहवो रासभराविणोऽस्यां शालायां सा = बहुरासभराविका शाला । अनेन कच्समासान्तः → क । 'आत्' (२।४।१८) आप्प्र० → आ । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004232
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 07
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2014
Total Pages450
LanguageHindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy