SearchBrowseAboutContactDonate
Page Preview
Page 299
Loading...
Download File
Download File
Page Text
________________ २७६ श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां ढुण्ढिकायां । [उत्काकुत्] उत्कृष्टं काकुदं ताल्वस्य = उत्काकुत् । अनेन काकुदशब्दस्य 'षष्ठ्याऽन्त्यस्य' (७४।१०६) इत्यनया परिभाषया अन्त्याकारस्य लुगिति भावार्थः ॥छ।। पूर्णाद् वा ॥ ७।३।१६६ ॥ [पूर्णात् ] पूर्ण पञ्चमी ङसि । [वा] वा प्रथमा सि । [पूर्णकाकुत्, पूर्णकाकुदः] पूर्णं काकुदमस्य = पूर्णकाकुत् । अनेन विकल्पे काकुदशब्दस्य अलुक् समासान्तः । [ रक्तकाकुदः ] रक्तं काकुदमस्य = रक्तकाकुदः ॥छ।। ककुदस्याऽवस्थायाम् ॥ ७।३।१६७ ॥ [ककुदस्य] ककुद षष्ठी ङस् । [अवस्थायाम् ] अवस्था सप्तमी ङि । "वयांसि तु दशाः प्रायाः" (श्लोकाङ्क: ५६५) इति अभिधानचिन्तामणिपाठादत्र न कालकृता शरीरावस्था वयो बाल्यादिः । अत एव "कृता वयस्तु धर्मादयः अभृतयोऽवस्था" इति भोजः । [असञ्जातककुद् बालः] न सञ्जातमसञ्जातं ककुदं स्कन्धोऽस्य = असञ्जातककुद् बालः । अनेन ककुदशब्दस्य अलुक् । [पूर्णककुद् युवा] पूर्ण ककुदमस्य = पूर्णककुद् युवा । अनेन ककुदशब्दस्य अलुक् । प्रथमा सि । 'दीर्घङ्याब्०' (१।४।४५) सिलुक् । [स्थूलककुद् बलवान्] स्थूलं ककुदमस्य = स्थूलककुद् बलवान् । अनेन ककुदशब्दस्य अलुक् । प्रथमा सि । 'दीर्घङ्याब्०' (१।४।४५) सिलुक् । ___ [यष्टिककुद्] यष्टिवत् ककुदमस्य = यष्टिककुद् । अनेन ककुदशब्दस्य अलुक् । प्रथमा सि । 'दीर्घङ्याब्०' (१।४।४५) सिलुक् । __ [सन्नककुद् कृशः] नातिस्थूलो नातिकृशः सन्नं कृशं ककुदमस्य = सन्नककुद् कृशः । अनेन ककुदशब्दस्य अलुक् । प्रथमा सि । 'दीर्घङ्याब्०' (१।४।४५) सिलुक् । [पनककुद् वृद्धः] पन्नं पतितं ककुदमस्य = पन्नककुद् वृद्धः । अनेन ककुदस्य अलुक् । प्रथमा सि । 'दीर्घङ्याब' (१।४।४५) सिलुक् । [श्वेतककुदः ] श्वेतं ककुदमस्य = श्वेतककुदः । प्रथमा सि । 'सो रुः' (२।१।७२) स० → र० । ककुच्छब्देनैव सिद्धे ककुदशब्दस्याऽस्मिन् विषये प्रयोगनिवृत्त्यर्थं वचनम् ॥छ।। त्रिककुद् गिरौ ॥ ७।३।१६८ ॥ [त्रिककुत् ] त्रिककुत् प्रथमा सि । 'दीर्घङ्याब्-व्यञ्जनात् से:' (१।४।४५) सिलुक् । [गिरौ] गिरि सप्तमी ङि । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004232
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 07
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2014
Total Pages450
LanguageHindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy