SearchBrowseAboutContactDonate
Page Preview
Page 298
Loading...
Download File
Download File
Page Text
________________ सप्तमाध्यायस्य तृतीयः पादः ॥ २७५ [प्रणसं मुखम् ] प्रगता प्रवृद्धा वा नासिका अस्य = प्रणसं मुखम् । अनेन नासिकाशब्दस्य "नस"आदेश एवं समासान्तः । सि । 'अतः स्यमोऽम्' (१।४।५७) अम् । 'नसस्य' (२।३।६५) णत्वम् । [उन्नसं मुखम् ] उन्नता उद्गता वा नासिका अस्य = उन्नसं मुखम् । अनेन नासिकाशब्दस्य "नस"आदेश एवं समासान्तः । सि । 'अतः स्यमोऽम्' (१।४।५७) अम् । असंज्ञार्थं वचनम् ॥छ। वेः खु-न-ग्रम् ॥ ७।३।१६३ ॥ [वेः] वि पञ्चमी ङसि । [खुखग्रम् ] खुश्च ख्रश्च ग्रश्च = खुखग्रम् । [विखुः, विख्रः, विग्रः] विगता नासिका अस्य = विखुः, विख्रः, विग्रः । अनेन नासिकाशब्दस्य "खु-नग्र"देश एवं समासान्तः । प्रथमा सि । 'सो रुः' (२।१।७२) स० → र० । [विनासिकः] वेः-पक्षिण इव नासिका अस्य = विनासिकः । 'गोश्चान्ते०' (२।४।९६) हूस्वः ॥छा। जायाया जानिः ॥ ७।३।१६४ ॥ [जायायाः] जाया षष्ठी ङस् । [जानिः] जानि प्रथमा सि । 'सो रुः' (२।१।७२) स० → र० । [युवजानिः] युवन् स्त्री चेत् युवतिः । 'यूनस्तिः ' (२।४।७७) तिप्र० । युवतिर्जाया अस्य = युवजानिः । अनेन जायाशब्दस्य "जानि" देश एवं समासान्तः । 'परतः स्त्री०' (३।२।४९) "ति"याति । 'नाम्नो नोऽनह्नः' (२१९१) नलुक् । [प्रियजानिः] प्रिया जाया अस्य = प्रियजानिः । अनेन जायाशब्दस्य "जानि"देश एवं समासान्तः । 'परतः स्त्री०' (३।२।४९) पुंवद्भावः । प्रथमा सि । 'सो रुः' (२।१७२) स० → र० । [शोभनजानिः ] शोभना जाया अस्य = शोभनजानिः । अनेन जायाशब्दस्य "जानि"देश एवं समासान्तः । 'परतः स्त्री०' (३।२।४९) पुंवद्भावः । प्रथमा सि । 'सो रुः' (२।१।७२) स० → र० । [वधूजानिः] वधूर्जाया अस्य = वधूजानिः । अनेन जायाशब्दस्य "जानि"देश एवं समासान्तः । प्रथमा सि । 'सो रु:' (२।१।७२) स० → र० । [अनन्यजानिः] न अन्या जाया अस्य = अनन्यजानिः । अनेन जायाशब्दस्य "जानि"देश एवं समासान्तः । 'परत: स्त्री०' (३।२।४९) पुंवद्भावः । प्रथमा सि । 'सो रुः' (२।१।७२) स० → र० ॥छ।। व्युदः काकुदस्य लुक् ॥ ७।३।१६५ ॥ [व्युदः] विश्व उच्च = व्युद्, तस्मात् । [काकुदस्य] काकुद षष्ठी ङ्स् । [लुक्] लुक् प्रथमा सि । [विकाकुत्] काकु-धू(ध्व)नि विशेषं ददातीति काकुदम् । 'आतो डोऽह्वा-वा-मः' (५।१७६) डप्र० → अ । 'डित्यन्त्यस्वरादेः' (२।१।११४) आलुक् । विगतं काकुदं ताल्वस्य = विकाकुत् । अनेन काकुदशब्दस्य 'षष्ठ्याऽन्त्यस्य' (७।४।१०६) इत्यनया परिभाषया अन्त्याकारस्य लुगिति भावार्थः । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004232
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 07
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2014
Total Pages450
LanguageHindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy