________________
२७४
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां ढुण्ढिकायां ।
[खरणाः, खरणसौ] खरा खरस्येव नासिका यस्य ययोर्वा = खरणाः, खरणसौ । अनेन नासिकाशब्दस्य "नस्"आदेश एवं समासान्तः । सि-औ । 'अभ्वादेरत्वस: सौ' (१।४।९०) दीर्घः । 'दीर्घड्याब' (१।४।४५) सिलुक् । 'सो रुः' (२।११७२) स० → र० । 'र: पदान्ते विसर्गस्तयोः' (१३५३) विसर्गः । 'पूर्वपदस्थानाम्न्यगः' (२।३।६४) । णत्वम् ।
[खुरणाः, खुरणसौ] खुर इव नासिका यस्य ययोर्वा = खुरणाः, खुरणसौ । अनेन नासिकाशब्दस्य "नस्"आदेश एवं समासान्तः । सि-औ । 'अभ्वादेरत्वसः सौ' (१।४।९०) दीर्घः । 'दीर्घयाब्०' (१।४।४५) सिलुक् । 'सो रुः' (२।११७२) स० → र० । 'र: पदान्ते०' (१।३।५३) विसर्गः । 'पूर्वपदस्थानाम्न्यगः' (२।३।६४) णत्वम् ॥छ।।
अस्थूलाच्च नसः ॥ ७।३।१६१ ॥ [अस्थूलात् ] न स्थूलोऽस्थूलस्तस्मात् । [च] च प्रथमा सि । [नसः] नस प्रथमा सि । 'सो रुः' (२।११७२) स० → र० ।
[ द्रुणसः] दुरिव नासिका अस्य = द्रुणसः । अनेन नासिकाशब्दस्य "नस"आदेश एवं समासान्तः । 'पूर्वपदस्थानाम्न्यगः' (२।३।६४) इत्यादिना णत्वम् । .
[वासॊणसः] वर्धस्येयं = वार्धी । 'तस्येदम्' (६।३।१६०) अण्प्र० → अ । 'वृद्धि: स्वरेष्वादेणिति तद्धिते' (७।४।१) वृद्धिः । 'अवर्णेवर्णस्य' (७४।६८) अलुक् । 'अणजेयेकण' (२।४।२०) ङी । वाधींव नासिका अस्य = वार्धाणसः । अनेन नासिकाशब्दस्य "नस" आदेश एवं समासान्तः । 'पूर्वपदस्थान्नाम्न्यगः' (२।३।६४) णत्वम् । रज्जुविशेषणेन वा(शब्दस्य 'परतः स्त्री पुम्वत् स्त्र्येकार्थेऽनङ् (३।२।४९) इत्यादिना पुंवद्भावप्राप्तिः तद्वन्निरस्थिर्नासा अस्य । 'तद्धितः स्वरवृद्धि०' (३।२।५५) इत्यादिना पुंवद्भावाभावः ।
[गोनसः ] गोरिव नासिका अस्य = गोनसः । अनेन नासिकाशब्दस्य "नस"आदेश एवं समासान्तः । [कुम्भीनसः] कुम्भीव नासिका अस्य = कुम्भीनसः । अनेन नासिकाशब्दस्य "नस"आदेश एवं समासान्तः ।
[खरणसः] खरस्येव नासिका अस्य = खरणसः । अनेन नासिकाशब्दस्य "नस"आदेश एवं समासान्तः । 'पूर्वपदस्थानाम्न्यगः' (२।३।६४) णत्वम् ।
[खुरणसः] खुर इव नासिका अस्य = खुरणसः । अनेन नासिकाशब्दस्य "नस"आदेश एवं समासान्तः । 'पूर्वपदस्थानाम्न्यगः' (२।३।६४) णत्वम् ।
[स्थूलनासिकः ] स्थूला नासिका अस्य = स्थूलनासिकः । [ तुङ्गनासिकः ] तुङ्गा नासिका अस्य = तुङ्गनासिकः । [गोनासः] गोरिव नासा अस्य = गोनासः । 'गोश्चान्ते हुस्वोऽनंशिसमासेयोबहुव्रीहौ' (२।४।९६) हुस्वः । चकारः पूर्वेण सूत्रेण अस्य बाधानिवृत्त्यर्थः ॥छ।।
उपसर्गात् ॥ ७।३।१६२ ॥ [उपसर्गात् ] उपसर्ग पञ्चमी ङसि । धातुयोगे यः प्रादिरुपसर्गसंज्ञो भवति तस्मात्.....।
For Personal & Private Use Only
Jain Education International
www.jainelibrary.org