SearchBrowseAboutContactDonate
Page Preview
Page 296
Loading...
Download File
Download File
Page Text
________________ सप्तमाध्यायस्य तृतीयः पादः ॥ २७B [ दुर्हदमित्रः] दुष्टं हृदयं यस्य सः = दुर्हदमित्रः । अनेन हृदयस्य "हृद्"देश एवं समासान्तः । [सुहृदयो मुनिः] शोभनं हृदयं यस्य सः = सुहृदयो मुनिः । [ दुर्हदयो व्याधः ] दुष्टं हृदयं यस्य सः = दुर्हदयो व्याधः ॥छ।। धनुषो धन्वन् ॥ ७।३।१५८ ॥ [धनुषः] धनुस् षष्ठी ङस् । 'नाम्यन्तस्था-कवर्गात् पदान्तः कृतस्य सः शिड्-नान्तरेऽपि' (२।३।१५) षत्वम् । [धन्वन्] धन्वन् प्रथमा सि । [शार्ङ्गधन्वा] शाएं धनुर्यस्य सः = शार्ङ्गधन्वा । अनेन धनुसूशब्दस्य "धन्वन्"आदेश एवं समासान्तः । प्रथमा सि । 'नि दीर्घः' (१।४।८५) दीर्घत्वम् । [पिनाकधन्वा ] 'पिष्लूप् संचूर्णने' (१४९३) पिष् । पिनष्टीति । 'पिषेः पिन्-पिण्यौ च' (उणा० ३६) किद् आकप्र०-पिन् आदेशश्च । पिनाकं धनुरस्य = पिनाकधन्वा । अनेन धनुसशब्दस्य "धन्वन्"आदेश एवं समासान्तः । प्रथमा सि । 'नि दीर्घः' (१।४।८५) दीर्घत्वम् । [अजकावधन्वा] अजकोऽस्यास्ति = अजकावम् । 'मण्यादिभ्यः' (७।२।४४) वप्र० । 'घञ्युपसर्गस्य बहुलम्' (३।२।८६) बाहुलकाद्दीर्घत्वम् । अजकावं धनुर्यस्य सः = अजकावधन्वा । अनेन धनुस्शब्दस्य "धन्वन्" आदेश एवं समासान्तः । प्रथमा सि । 'नि दीर्घः' (१।४।८५) दीर्घत्वम् । [गाण्डीवधन्वा] गाण्डीवं धनुर्यस्य सः = गाण्डीवधन्वा । अनेन धनुस्शब्दस्य "धन्वन्" आदेश एवं समासान्तः । प्रथमा सि । 'नि दीर्घः' (१।४।८५) दीर्घत्वम् । . [गाण्डीवधनुषः खेभ्यो निश्चचार हुताशनः] संज्ञात्वविवक्षायां "वा नाम्नि" (७।३।१५९) इत्यनेन विकल्पपक्षे न कश्चिदादेशः, तेन भविष्यति ॥छ।। वा नाम्नि ॥ ७।३।१५९ ॥ [वा] वा प्रथमा सि । [नाम्नि] नामन् सप्तमी ङि। [शतधन्वा, शतधनुः ] शतं धनूंषि यस्य = शतधन्वा । अनेन धनुस्शब्दस्य "धन्वन्"देश एवं समासान्तः । प्रथमा सि । 'नि दीर्घः' (१।४।८५) दीर्घः । पक्षे-प्रथमा सि । 'दीर्घझ्याब्-व्यञ्जनात् से:' (१।४।४५) सिलुक् । [पुष्पधन्वा, पुष्पधनुः] पुष्पाण्येव धनुरस्य = पुष्पधन्वा । अनेन धनुस्शब्दस्य "धन्वन्"देश एवं समासान्तः । प्रथमा सि । 'नि दीर्घः' (१।४।८५) दीर्घः । पक्षे-प्रथमा सि । 'दीर्घझ्याब्०' (१।४।४५) सिलुक् ॥छा। खर-खुरान्नासिकाया नस् ॥ ७।३।१६० ॥ [खरखुरात् ] खरश्च खुरश्च = खरखुरम्, तस्मात् । [नासिकायाः] नासिका षष्ठी ङस् । [नस्] नस् प्रथमा सि । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004232
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 07
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2014
Total Pages450
LanguageHindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy