________________
२७२
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां ढुण्डिकायां ।
[शुभ्रदन, शुभ्रदन्तः] शुभ्रा दन्ता अस्य = शुभ्रदन् । अनेन दन्तशब्दस्य "दत"देश एवं समासान्तः । प्रथमा सि । 'ऋदुदितः' (१।४/७०) नोऽन्तः ।
[वृषदन्, वृषदन्तः] वृषस्येव दन्ता अस्य = वृषदन् । अनेन दन्तशब्दस्य "दतृ"देश एवं समासान्तः । प्रथमा सि । 'ऋदुदितः' (१।४।७०) नोऽन्तः ।
[वराहदन्, वराहदन्तः ] वराहस्येव दन्ता अस्य = वराहदन् । अनेन दन्तशब्दस्य "दतृ"देश एवं समासान्तः । प्रथमा सि । 'ऋदुदितः' (१।४/७०) नोऽन्तः ।
[अहिदन, अहिदन्तः] अहिरिव दन्ता अस्य = अहिदन् । अनेन दन्तशब्दस्य "दतृ"आदेश एवं समासान्तः । प्रथमा सि । 'ऋदुदितः' (१।४।७०) नोऽन्तः ।
[मूषिकदन्, मूषिकदन्तः ] मूषिकस्येव दन्ता अस्य = मूषिकदन् । अनेन दन्तशब्दस्य समासान्तः । प्रथमा सि । 'ऋदुदितः' (१।४/७०) नोऽन्तः ।
[शिखरदन्, शिखरदन्तः ] शिखरमिव दन्ता अस्य = शिखरदन् । अनेन दन्तशब्दस्य "दतृ"आदेश एवं समासान्तः । प्रथमा सि । 'ऋदुदितः' (१।४/७०) नोऽन्तः । "पक्वदाडिमसंकाशं माणिक्यं शिखरं विदुः" इत्यजयदेवेनोक्तम् ॥छ।।
सं-प्राज्जानोर्जु-ज्ञौ ॥ ७।३।१५५ ॥ [संप्रात् ] सम् च प्रश्च = संप्रम्, तस्मात् । [जानोः ] जानु षष्ठी ङस् । [जुज्ञौ ] जुश्च ज्ञश्च = जुज्ञौ । [संजुः, संज्ञः ] सङ्गते जानुनी अस्य = संजुः, संज्ञः । अनेन जानुशब्दस्य जु-ज्ञ आदेश एवं समासान्तः ।
[ प्रजुः, प्रज्ञः ] प्रगते प्रवृद्धे प्रणते प्रकृष्टे वा जानुनी अस्य = प्रजुः, प्रज्ञः । अनेन जानुशब्दस्य जु-ज्ञ आदेश एवं समासान्तः । [विजानुः ] विगते जानुनी अस्य = विजानुः ॥छ।।
वोर्ध्वात् ॥ ७।३।१५६ ॥ [वा] वा प्रथमा सि । [ऊर्ध्वात् ] ऊर्ध्व पञ्चमी ङसि ।
[ऊर्ध्वज्ञः, ऊर्ध्वज्ञः, ऊर्ध्वजानुः] ऊर्श्वे जानुनी अस्य = ऊर्ध्वजुः, ऊर्ध्वज्ञः, ऊर्ध्वजानुः । अनेन जानुशब्दस्य जु-ज्ञदेशमेवं समासान्तौ विकल्पेन ॥छ।।
सुहृद्-दुर्हन्मित्रा-मित्रे ॥ ७।३।१५७ ॥ [सुहृदुहृत् ] सुहच्च दुर्हच्च = सुहृदुईत् । [मित्रामित्रे ] मित्रं च अमित्रश्च = मित्राऽमित्रम्, तस्मिन् ।
[सहन्मित्रम् ] शोभनं हृदयं यस्य तत् = सुहृन्मित्रम् । अनेन हृदयस्य "हृद"देश एवं समासान्तः । सि । 'तृतीयस्य पञ्चमे' (१।३।१) द० → न० ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org