SearchBrowseAboutContactDonate
Page Preview
Page 294
Loading...
Download File
Download File
Page Text
________________ सप्तमाध्यायस्य तृतीयः पादः ॥ २७१ [अयोदती] अय इव दन्ता अस्याः = अयोदती । अनेन दन्तशब्दस्य "दतृ"देश:-एवं समासान्तः । 'अधातूदृदितः' (२।४।२) ङी। [फालदती] फालवत् दन्ता अस्याः सा = फालदती । अनेन दन्तशब्दस्य "दतृ"देशः-एवं समासान्तः । 'अधातूदृदितः' (२।४।२) ङी । • [परशुदती] परशुरिव दन्ता अस्याः सा = परशुदती । अनेन दन्तशब्दस्य "दतृ"देश:-एवं समासान्तः । 'अधातूदृदितः' (२।४।२) ङी । एवंनामा काचित् । [वज्रदन्तः] वज्रवद्दन्ता अस्य = वज्रदन्तः । [नागदन्तः ] नागवद्दन्ता अस्य = नागदन्तः । [समदन्ती] समा दन्ता अस्याः सा । 'नासिकोदरौष्ठ-जङ्घा-दन्त-कर्ण-शृङ्गा-5ङ्ग-गात्र-कण्ठात्' (२।४।३९) ङी । 'अस्य ङ्यां लुक्' (२।४।८६) अलुक् । [स्निग्धदन्ती] स्निग्धा दन्ता अस्याः सा = स्निग्धदन्ती । 'नासिकोदरौष्ठजना०' (२।४।३९) ङी । अस्य यां लुक्' (२।४।८६) अलुक् ॥छ। श्यावा-ऽरोकाद् वा ॥ ७।३।१५३ ॥ [श्यावाऽरोकात् ] श्यावश्च अरोक्श्च = श्यावाऽरोकम्, तस्मात् । [वा] वा प्रथमा सि । [श्यावदन्, श्यावदन्तः ] श्यावा:-कपिशा दन्ता अस्य = श्यावदन् । अनेन विकल्पे “दतृ"देश:-एवं समासान्तः । - 'प्रथमा सि । 'ऋदुदितः' (१।४/७०) नोऽन्तः । [अरोकदन्, अरोकदन्तः ] अरोका-निर्दीप्तयो निश्छिद्रा वा दन्ता अस्य = अरोकदन् । अनेन विकल्पे "दतृ"देश:-एवं समासान्तः । प्रथमा सि । 'ऋदुदितः' (१।४।७०) नोऽन्तः ॥छ।। ___ वाऽग्रान्त-शुद्ध-शुभ्र-वृष-वराहा-ऽहि-मूषिक-शिखरात् ॥ ७।३।१५४ ॥ [वा] वा प्रथमा सि । [अग्रान्तशुद्धशुभ्रवृषवराहाऽहिमूषिकाशिखरात्] अग्रान्तश्च शुद्धश्च शुभ्रश्च वृषश्च वराहश्च अहिश्च मूषिकश्च शिखरश्च = अग्रान्तशुद्धशुभ्रवृषवराहाऽहिमूषिकशिखरम्, तस्मात् । . योगविभागात् नाम्नीति निवृत्तम् । [कुड्मलाग्रदन्, कुड्मलाग्रदन्तः] कुड्मलाग्रमिव दन्ता अस्य = कुड्मलाग्रदन् । अनेन दन्तशब्दस्य "दतृ" आदेश एवं समासान्तः । प्रथमा सि । 'ऋदुदितः' (१।४।७०) नोऽन्तः । . [शिखराग्रदन्, शिखराग्रदन्तः] शिखरस्येवाग्रं येषां ते = शिखराग्राः । शिखरामा दन्ता अस्य = शिखराग्रदन् । अनेन दन्तशब्दस्य "दतृ"देश एवं समासान्तः । प्रथमा सि । 'ऋदुदितः' (१।४/७०) नोऽन्तः । [शुद्धदन्, शुद्धदन्तः] शुद्धा दन्ता अस्य = शुद्धदन् । अनेन दन्तशब्दस्य "दतृ"देश एवं समासान्तः । प्रथमा सि । 'ऋदुदितः' (१।४/७०) नोऽन्तः । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004232
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 07
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2014
Total Pages450
LanguageHindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy