________________
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां दुण्ढिकायां ।
[सुपदी, सुपात्] शोभनौ पादावस्याः सा = सुपदी । अनेन पादशब्दस्य " पाद्" देश: । 'वा पादः' (२|४|६) इत्यनेन विकल्पेन ङी । 'य-स्वरे पादः पदणि-क्य घुटि' (२|१|१०२) "पद्" देश: ।
२७०
[ द्विपदी, द्विपात्] द्वौ पादावस्याः सा = द्विपदी । अनेन पादस्य "पाद् "देशः । 'वा पादः' (२४६ ) इत्यनेन विकल्पेन ङी । 'य-स्वरे पादः पदणि०' (२।१।१०२) "पद्" देश: ॥छ |
वयसि दन्तस्य दतृ ॥ ७।३।१५१ ॥
[ वयसि ] वयस् सप्तमी ङि ।
[ दन्तस्य ] दन्त षष्ठी ङस् ।
[ दतृ ] दतृ प्रथमा सि । सूत्रत्वात् (लोप: ) ।
[ सुदन् कुमारः ] शोभनाः सुजाताः समस्ता वा दन्ता अस्य = सुदन् कुमारः । अनेन “दतृ" देशः समासान्तः-दत् । प्रथमा सि । ‘ऋदुदित:' (१।४।७०) नोऽन्तः । 'दीर्घङ्याब्०' (१।४।४५) सिलुक् । 'पदस्य ' (२२११८९) तलोपः ।
[ सुदती कुमारी ] शोभना दन्ता अस्या: सा = सुदती कुमारी । अनेन " दतृ" देश: - दत् । 'अधातूदृदित:' (२४२) ङी ।
[ द्विदन् बालः ] द्वौ दन्तावस्य = द्विदन् बालः । अनेन दन्तशब्दस्य " दतृ" देशः एवं समासान्तः- दत् । प्रथमा सि । ‘ऋदुदित:' (१।४।७० ) नोऽन्तः । 'दीर्घङ्याब्०' (१।४।४५) सिलुक् । 'पदस्य' (२|१|८९) तलोपः ।
[ त्रिदन् ] त्रयो दन्ता अस्य = त्रिदन् । अनेन दन्तशब्दस्य " दतृ "देशः एवं समासान्तः - दत् । प्रथमा सि । 'ऋदुदित: ' (१।४।७०) नोऽन्तः । 'दीर्घङ्याब्० ' (१।४।४५) सिलुक् । 'पदस्य' (२।१।८९) तलोपः ।
[ चतुर्दन्] चत्वारो दन्ता अस्य स = चतुर्दन् । अनेन दन्तशब्दस्य " दतृ" देशः एवं समासान्तः- दत् । प्रथमा सि । 'ऋदुदितः' (१।४।७०) नोऽन्तः । 'दीर्घङ्याब्०' (१|४|४५) सिलुक् । 'पदस्य' (२|१|८९) तलोपः ।
[ षोडन् ] षड् दन्ता अस्य = षोडन् । अनेन दन्तशब्दस्य " दतृ " देशः एवं समासान्तः - दत् । 'एकादश - षोडशषोडन्-षोढा-षड्ढा' (३।२।९१) नोऽन्तः । 'दीर्घयाब्० ' (१।४।४५) सिलुक् । 'पदस्य' (२|१|८९) तलोपः ।
[ सुदन्तो दाक्षिणात्यः ] शोभना दन्ता अस्य = सुदन्तः । दक्षिणा मण्ड्यते । दक्षिणस्यां भवः दाक्षिणात्यः । ‘दक्षिणा-पश्चात्-पुरसस्त्यण्' (६।३।१३) त्यण्प्र०त्य । 'वृद्धिः स्वरे० ' ( ७|४|१) वृद्धि: । 'कौण्डिन्याऽगस्त्ययोः कुण्डिना - ऽगस्ती च' (६।१।१२७) इत्यादिना अगस्त्येति निर्देशात् पुंवद्भावाभावः ।
[ द्विदन्तः कुञ्जरः ] द्वौ दन्तौ अस्य = द्विदन्त: कुञ्जरः ॥छ ।
स्त्रियां नाम्नि ॥ ७।३।१५२ ॥
[स्त्रियाम् ] ‘असूच् क्षेपणे' (१२२१) अस् । अस्यति पुरुषस्य विवेकमिति स्त्री । 'स्तृग्श् आच्छादने' (१५२१) स्तृ । स्तृणाति-आच्छादयति पुरुषस्य विवेकमिति । ष्ट् ( ३९ ) - स्त्यै सङ्घाते च ' (४०) स्त्यै । स्त्यायति संवर्द्धति (ते) पुरुषेण सहेति स्त्री निपात्यते, तस्याम् = स्त्रियाम् ।
=
[ नाम्नि ] 'णमं प्रह्वत्वे' (३८८ ) णम् । 'पाठे धात्वादेर्णो न: ' (२|३|९७) नम् । नमति-धावते = नामन् । 'सात्मन्नात्मन्-वेमन्-रोमन्- क्लोमन् - नामन् - पाप्मन्-पक्ष्मन् - यक्ष्मन्निति' (उणा० ९१६) नामन्निपातः तस्मिन् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org