________________
सप्तमाध्यायस्य तृतीयः पादः ॥
२६९
[आर्द्रपदी] आद्रौ पादौ यस्याः सा = आर्द्रपदी। [गोधापदी ] गोधावत् पादौ यस्याः सा = गोधापदी । [कलशीपदी ] कलशीवत् पादावस्याः सा = कलशीपदी । [दासीपदी] दासीवत् पादावस्याः सा = दासीपदी । [विष्णुपदी] विष्णुवत् पादावस्याः सा = विष्णुपदी । [कृष्णपदी ] कृष्णौ पादावस्याः सा = कृष्णपदी । [ कुणिपदी ] कुणी पादावस्याः सा = कुणिपदी । [गुणपदी ] गुणवत् पादावस्याः सा = गुणपदी । [द्रोणीपदी ] द्रोणीवत् पादावस्याः सा = द्रोणीपदी । [ सकृत्पदी ] सकृदेकः पादोऽस्याः सा = सकृत्पदी । [सूकरपदी ] सूकरस्येव पादावस्याः सा = सूकरपदी । [शुचिपदी] शुची निर्मलौ पादावस्याः सा = शुचिपदी । [विपदी] वि-पक्षिवत् पादावस्याः सा = विपदी । [अपदी] न विद्यते पादावस्याः सा = अपदी । [निष्पदी] निर्गतौ पादावस्याः सा = निष्पदी । 'निर्दुर्बहिराविष्प्रादुश्चतुराम्' (२।३।९) र० → ष० ।
[अष्टापदी ] अष्टौ पादावस्याः (पादा अस्याः) सा = अष्टापदी । संज्ञायां 'नाम्नि' (३।२।७५) इत्यसंज्ञायां तु निपातनाद् दीर्घः । . [अशीतिपदी] अशीतिः पादा अस्याः सा = अशीतिपदी । अनेन पादशब्दस्य "पात्"देशः । 'वा पादः' (२।४।६) ङी ।
येऽत्रोपमानपूर्वास्तेषां पूर्वेण, संख्यादीनां चोत्तरेण सिद्धे, यदिह वचनं तेन 'वा पादः' (२।४।६) इति ङीविकल्पो न भवति ॥छ।
सु-संख्यात् ॥ ७॥३॥१५० ॥ [सुसंख्यात्] सुश्च संख्या च = सुसंख्यम्, तस्मात् । 'क्लीबे' (२।४।९७) हुस्वः । [सुपाद् ] शोभनौ पादावस्य = सुपात् । [द्विपाद् ] द्वौ पादावस्य = द्विपात् ।
[त्रिपात् ] त्रयः पादा अस्य = त्रिपात् । - [चतुष्पात् ] चत्वारः पादा अस्य = चतुष्पात् । अनेन सर्वत्र पादशब्दस्य पाद्देशः-एवं समासान्तः । 'निर्दुर्बहिराविष्प्रादुश्चतुराम्' (२।३।९) र० → ष० । पक्षे
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org