________________
२६८
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां ढुण्ढिकायां ।
[उत्पलगन्धि, उत्पलगन्धं वा मुखम् ] उत्पलस्येव गन्धो यस्य तत् = उत्पलगन्धि मुखम् । अनेन विकल्पेन इत्समासान्तः → इ । 'अवर्णेवर्णस्य' (७४/६८) अलुक् । पक्षे-सि ।
[करीषगन्धि, करीषगन्धं वा शरीरम् ] करीषस्येव गन्धोऽस्य तत् = करीषगन्धि शरीरम् । अनेन विकल्पेन इतसमासान्तः →इ । 'अवर्णेवर्णस्य' (७/४/६८) अलुक । पक्षे-सि ॥छ।।
पात् पादस्याऽहस्त्यादेः ॥ ७।३।१४८ ॥ [पात् ] पात् प्रथमा सि । 'दीर्घङ्याब्-व्यञ्जनात् से:' (१।४।४५) सिलुक् । [पादस्य] पाद षष्ठी ङस् ।
[अहस्त्यादेः] हस्ती आदिर्यस्य सः = हस्त्यादिः । न हस्त्यादिः = अहस्त्यादिः, तस्मात् । 'नत्रत्' (३।२।१२५) न० → अ० ।
[व्याघ्रपात्] 'पदिच गतौ' (१२५७) पद् । पद्यते पत्स्यते अपादि पेदे वा = पादः । 'पद-रुज-विश-स्पृशो घञ्' (५।३।१६) घप्र० → अ । 'णिति' (४।३५०) उपान्त्यवृद्धिः । व्याघ्रस्येव पादावस्य = व्याघ्रपात् । अनेन पादशब्दस्य "पात्"देशः । प्रथमा सि । 'दीर्घङ्याब्०' (१।४।४५) सिलुक् ।।
[सिंहपात् ] सिंहस्येव पादावस्य = सिंहपाद्(त्) । अनेन पादशब्दस्य "पात्"देशः । प्रथमा सि । 'दीर्घङ्याब्० (१।४।४५) सिलुक् ।
[ऋक्षपात् ] ऋक्षस्येव पादावस्य = ऋक्षपात् । अनेन पादशब्दस्य "पात्"देशः । प्रथमा सि । 'दीर्घयाब्०' (१।४।४५) सिलुक् ।
[हस्तिपादः ] हस्तिन इव पादावस्य = हस्तिपादः । प्रथमा सि । 'सो रुः' (२।१।७२) स० → र० । [अश्वपादः ] अश्वस्येव पादावस्य = अश्वपादः । प्रथमा सि । 'सो रुः' (२।१९७२) स० → र० । गणोऽत्र ॥छ।
कुम्भपद्यादिः ॥ ७।३।१४९ ॥ [कुम्भपद्यादिः ] कुम्भपदी आदिर्यस्य सः = कुम्भपद्यादिः । प्रथमा सि । 'सो रुः' (२।१।७२). स० → र० ।
[कुम्भपदी] कुम्भाविव पादावस्याः = कुम्भपदी । अनेन पाद् । 'वा पादः' (२०४६) ङी । 'य-स्वरे पादः पदणि-क्य-घुटि' (२।११०२) "पद्"देशः ।
[जालपदी] जालमिव पादावस्याः सा = जालपदी ।
[एकपदी] एक इव पादोऽस्याः
सा = एकपदी ।
[शतपदी] शतं पादा यस्याः सा = शतपदी । [सूत्रपदी ] सूत्रवत् पादौ यस्याः सा = सूत्रपदी । [मुनिपदी ] मुनेरिव पादौ यस्याः सा = मुनिपदी । [शितिपदी] शितीव पादावस्याः सा = शितिपदी ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org