SearchBrowseAboutContactDonate
Page Preview
Page 290
Loading...
Download File
Download File
Page Text
________________ सप्तमाध्यायस्य तृतीयः पादः ॥ २६७ [सुगन्ध आपणिकः] शोभना गन्धाः कुष्ठादयोऽस्य । प्रथमा सि । 'सो रुः' (२।१।७२) स० → र० । 'रोर्यः' (१।३।२६) र० → य० । 'स्वरे वा' (१।३।२४) यलुक् । आ ‘पणि व्यवहार-स्तुत्योः' (७१०) पण् । आ एत्य पणाय्यतेऽस्मिन्निति आपणः । 'पुन्नाम्नि घः' (५।३।१३०) घप्र० → अ । आपणेन चरति = आपणिकः । 'चरति' (६।४।११) इकण्प्र० → इक । 'वृद्धिः स्वरेष्वादेणिति तद्धिते' (७४।१) वृद्धिः । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् ॥छ।। वाऽऽगन्तौ ॥ ७।३।१४५ ॥ [वा] वा प्रथमा सि । [आगन्तौ ] आगन्तु सप्तमी ङि । आहार्ये उत्पाद्ये इत्येकार्थे गुणे वर्त्तते यो गन्धशब्दः...... । [सुगन्धि, सुगन्धं वा शरीरम् ] शोभनो गन्धो गुणोऽस्य = सुगन्धि शरीरम् । अनेन विकल्पेन इत्समासान्तः → इ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । पक्षे न कश्चित् प्रत्ययः । सि । [पूतिगन्धि, पूतिगन्धं वा जलम् ] पूतिर्गन्धो गुणोऽस्य = पूतिगन्धि जलम् । अनेन विकल्पेन इत्समासान्तः → इ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । पक्षे न कश्चित् प्रत्ययः । सि । - [उद्गन्धिः, उद्गन्धो वा आपणः ] उत्कटो गन्धो गुणोऽस्य = उद्गन्धिः आपणः । अनेन विकल्पेन इत्समासान्तः → इ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । पक्षे न कश्चित् प्रत्ययः । सि । 'सो रुः' (२।१।७२) स० → र० । . [सुरभिगन्धिः, सुरभिगन्धो वा पवनः ] सुरभिः गन्धो गुणोऽस्य = सुरभिगन्धि(:) पवनः । अनेन विकल्पेन इत्समासान्तः → इ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । पक्षे न कश्चित् प्रत्ययः । सि । 'सो रुः' (२।१७२) स० → र० ॥छ।। वाऽल्पे ॥ ७।३।१४६ ॥ [वा ] वा प्रथमा सि । [अल्पे] अल्प सप्तमी ङि । [सूपगन्धि, सूपगन्धं भोजनम् ] सूपस्य गन्धो मात्राऽस्मिन् = सूपगन्धि भोजनम् । अनेन विकल्पेन इत्समासान्तः → इ । 'अवर्णेवर्णस्य' (७४/६८) अलुक् । पक्षे-सि । अल्पसूपमित्यर्थः ।। [माल्यगन्धिः, माल्यगन्धः उत्सवः] माल्यस्य गन्धो मात्राऽस्मिन् = माल्यगन्धिः उत्सवः । अनेन विकल्पेन इत्समासान्तः → इ । 'अवर्णेवर्णस्य' (७४।६८) अलुक् । पक्षे-सि । [दधिगन्धि, दधिगन्धं भोजनम् ] दध्नो गन्धो मात्राऽस्मिन् तद् = दधिगन्धि भोजनम् । अनेन विकल्पेन इत्समासान्तः → इ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । पक्षे-सि । असमानाधिकरण्येऽपि उष्ट्रमुखादित्वाद् बहुव्रीहिः ॥छ।। वोपमानात् ॥ ७।३।१४७ ॥ [वा] वा प्रथमा सि । [ उपमानात् ] उपमान पञ्चमी ङसि । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004232
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 07
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2014
Total Pages450
LanguageHindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy