________________
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां दुण्डिकायां ।
[ याताश्छात्राः ] 'इंण्क् गतौ' (१०७५) इ । एतीति यत् । 'शत्रानशावेष्यति तु सस्यौ' (५/२/२०) शतृप्र० अत् । 'ह्विणोरप्विति व् - यौ' (४।३।१५) यत्वम् । यत इमे = याताश्छात्राः । 'तस्येदम्' (६।३।१६०) अण्प्र० अ । 'वृद्धिः स्वरे० ' (७|४|१) वृद्धिः ।
२८८
[ दाध्यश्विः ] दधिप्रधानोऽश्वः = दध्यश्वः । दध्यश्वस्यापत्यं = दाध्यश्विः । 'अत इञ्' (६।१।३१) इञ्प्र० → इ । 'वृद्धिः स्वरे०' (७|४|१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७|४|६८) अलुक् ।
[ माध्वश्विः ] मधुप्रधानोऽश्वः = मध्वश्वः । मध्वश्वस्यापत्यं = माध्वश्विः । 'अत इञ्' ( ६ |१| ३१) इञ्प्र० → इ । 'वृद्धिः स्वरे०' (७|४|१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७|४|६८) अलुक् ।
[झ्याशीतिकः, त्र्याशीतिकः ] द्वाभ्यामशीतिभ्यां निर्वृत्तः, द्वाभ्यामशीतिभ्यामधीष्टो भृतो वा, द्वेऽशीती भूतो भावी वा = द्व्याशीतिकः । त्रिभिरशीतिभिर्निर्वृत्तः, त्रिभिरशीतिभिरधीष्टो भृतो वा, त्रयोऽशीतयो भूतो भावी वा = त्र्याशीतिकः । अत्राशीतिशब्दो दिवसार्द्धमासमासादेः कालस्य संख्या ब्रूते इति 'कालात् परिजय्य - लभ्य - कार्य - सुकरे' (६|४|१०४) इत्यादिना कालाधिकारविहितो 'निर्वृत्ते' (६|४|१०५) इत्यादिभिः सूत्रैः इकण्प्र० इक । वृद्धिः ।
[ वैयाकरणभार्यः] अस्मिन् पदे निष्पन्नः वैयाकरण मण्ड्यते । 'अणञेयेकण्०' (२।४।२०) ङी । 'अस्य ङ्यां लुक्' (२।४।८६) अलुक् । वैयाकरणी भार्या अस्य = वैयाकरणभार्यः । 'गोश्चान्ते० ' (२।४।९६) ह्रस्वः । 'परत: स्त्री० ' (३।२।४९) पुंवत् ङीगतेत्यर्थः । प्रथमा सि । 'सो रु: ' (२२१७२) स०र० ।
[ सौवश्वभार्यः] अस्मिन् पदे निष्पन्नः सौवश्व मण्ड्यते । 'अणञेयेकण्०' (२।४।२०) ङी । 'अस्य ङ्यां लुक्' (२।४।८६) अलुक् । सौवश्वी भार्या यस्य = सौवश्वभार्यः । 'गोश्चान्ते० ' (२।४।९६) हुस्वः । 'परतः स्त्री० ' ( ३।२।४९) पुंवत् - ङीगतेत्यर्थः । प्रथमा सि । 'सो रु: ' (२।१।७२) स०र० ॥छ ।
द्वारादेः | ७|४|६ ॥
[ द्वारादेः ] द्वार आदिर्यस्य सः = द्वारादिः, तस्मात् ।
[ द्वौवारिकः ] द्वारे नियुक्तः द्वौवारिकः । 'तत्र नियुक्ते' (६।४।७४) इकण्प्र० इक । वृद्धिप्राप्तौ अनेन वकारात् प्राक् " औ" आगम: । 'अवर्णवर्णस्य' (७|४|६८) अलुक् ।
=
[ सौवर: ] स्वर मण्ड्यते । स्वरमधिकृत्य कृतो ग्रन्थः = सौवरः । ' अमोऽधिकृत्य ग्रन्थे' (६।३।१९८) अण्प्र०
अ । वृद्धिप्राप्तौ अनेन वकारात् प्राक् " औ" आगमः ।
सौवः । 'भवे' (६।३।१२३) अण्प्र० अ । वृद्धिप्राप्तौ अनेन वात् प्राक् " औ" रागमः । 'प्रायोऽव्ययस्य' (७|४|६५) अलुक् ।
[ सौव: ] स्वर् मण्ड्यते । स्वर्भवः
=
[ सौवस्तिकः ] स्वस्तीत्याह = सौवस्तिक: । 'प्रभूतादिभ्यो ब्रुवति' (६।४।४३) इकण्प्र० इक । अनेन वात् प्राक् “औ”रागमः । ‘अवर्णेवर्णस्य' (७|४|६८) इलुक् । अव्युत्पन्नोऽयं स्वस्तिशब्दः । सुपूर्वस्य तु पूर्वेण 'य्व: पदान्तात् प्रागैदौत्' (७|४|५) इत्यादिना सिद्धम् ।
[ सौवादुमृदः ] स्वादुमृदोऽपत्यं = सौवादुमृदः । 'ङसोऽपत्ये' (६।१।२८) अण्प्र० अ । वृद्धिप्राप्तौ अनेन वात् प्राक् “औ”रागमः ।
Jain Education International
[ वैयल्कसः] विगतोऽर्कः व्यर्कस्तं स्यतीति व्यल्कसः । ' आतो डोऽहवा - वा- म:' ‘डित्यन्त्यस्वरादेः' (२।१।११४) आलुक् । 'ऋफिडादीनां डश्चलः ' (२|३|१०४) २०
For Personal & Private Use Only
(५/१/७६) डप्र० → अ ।
ल० । व्यल्कसे भवः =
www.jainelibrary.org