SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ सप्तमाध्यायस्य प्रथमः पादः ॥ [शरण्यः] शरणे साधुः = शरण्यः । अनेन यप्र० । 'अवर्णेवर्णस्य' (७४।६८) अलुक् । प्रथमा सि । 'सो रुः' (२।१७२) स० → र० ॥छ।। पथ्यतिथि-वसति-स्वपतेरेयण ॥ ७।१।१६ ॥ [पथ्यतिथिवसतिस्वपतेः] पन्थाश्च अतिथिश्च वसतिश्च स्वपतिश्च = पथ्यतिथिवसतिस्वपति, तस्मात् । [एयण] एयण प्रथमा सि । [पाथेयम् ] पथिन् । पथि साधुः = पाथेयम् । अनेन एयणप्र० → एय । 'वृद्धिः स्वरेष्वादेणिति०' (७।४।१) वृद्धि: आ । 'नोऽपदस्य तद्धिते' (७४/६१) इन्लुक् । [आतिथेयम् ] अतिथि । अतिथौ साधुः = आतिथ्यम् । अनेन एयणप्र० → एय । 'वृद्धिः स्वरे०' (४१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७।४।६८) इलुक् । [वासतेयम् ] 'वसं निवासे' (९९९) वस् । उष्यतेऽस्यां = वसतिः । 'खल्यमि-रमि-वहि-वस्यर्तेरतिः' (उणा० ६५३) अतिप्र० । वसतौ साधुः = वासतेयम् । अनेन एयणप्र० → एय । 'वृद्धिः स्वरेष्वादेणिति०' (७।४।१) वृद्धि: आ । 'अवर्णेवर्णस्य' (७४/६८) इलुक् ।। [स्वापतेयम् ] स्वस्य पतिः स्वामी भर्ता वा = स्वपतिः । स्वपतौ साधुः = स्वापतेयम् । अनेन एयणप्र० → एय । ‘वृद्धिः स्वरेष्वादेणिति०' (७४।१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७४।६८) इलुक् ॥छ।। भक्ताण्णः ॥ ७।१।१७ ॥ [भक्तात्] भक्त पञ्चमी ङसि । [णः] ण प्रथमा सि । [भाक्तः शालिः] भक्ते साधुर्भाक्तः शालिः । अनेन णप्र० → अ । 'वृद्धिः स्वरेष्वादेणिति०' (७।४।१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । सि । [भाक्तास्तण्डुलाः] भक्ते साधवोऽमी = भाक्तास्तण्डुलाः । अनेन णप्र० → अ । 'वृद्धिः स्वरेष्वादेणिति०' (७।४।१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । जस् ॥छ।। पर्षदो ण्य-णौ ॥ ७।१।१८ ॥ [पर्षदः ] पर्षद् पञ्चमी ङसि । [ण्यणौ] ण्यश्च णश्च = ण्यणौ । औ । [पार्षद्यः ] पर्षद् । पर्षदि साधुः = पार्षद्यः । अनेन ण्यप्र० → य । 'वृद्धिः स्वरेष्वादेणिति०' (७।४।१) वृद्धिः आ। [पार्षदः] पर्षद् । पर्षदि साधुः = पार्षदः । अनेन णप्र० → अ । 'वृद्धिः स्वरेष्वादेणिति०' (७।४।१) वृद्धिः आ । परिषदोऽपीच्छन्त्यन्य: - [पारिषद्यः] परिषद् । परिषदि साधुः = पारिषद्यः । अनेन ण्यप्र०→ य । 'वृद्धिः स्वरेष्वादेणिति०' (७४।१) वृद्धिः आ । प्रथमा सि । 'सो रुः' (२।१।७२) स० → र० । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004232
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 07
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2014
Total Pages450
LanguageHindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy