SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां बुण्ढिकायां । [ पारिषदः ] परिषद् । परिषदि साधुः पारिषदः । अनेन णप्र० अ । 'वृद्धिः स्वरेष्वादेणिति०' (७|४|१) वृद्धिः आ । प्रथमा सि । 'सो रु: ' (२२१/७२) स०र० ॥छ । सर्वजनाण्ण्येन ॥ ७।१।१९ ॥ = [ सर्वजनात् ] सर्वजन पञ्चमी ङसि । [ ण्येनञौ ] ण्यश्च ईनञ् च = ण्येनञौ । [ सार्वजन्यः, सार्वजनीनः ] सर्वे च ते जनाश्च = सर्वजनाः । 'पूर्वकालैक - सर्व - जरत् - पुराण - नव - केवलम् ' (३|१|९७) इत्यादिना समासः । सर्वजनेषु साधुः सार्वजन्य: । अनेन ण्यप्र० य । 'वृद्धिः स्वरेष्वादेञ्णिति०' (७|४|१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७|४|६८) अलुक् । एवम् - सार्वजनीनः । अनेन ईनञ्प्र० ईन । 'वृद्धिः स्वरे०' (७|४|१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७|४|६८) अलुक् । प्रथमा सि । 'सो रु ' (२।१।७२) स०र० ॥छ -> प्रतिजनादेरीनञ् ॥ ७।१।२० ॥ = [ प्रतिजनादेः ] प्रतिजन आदिर्यस्य सः = प्रतिजनादिः तस्मात् । [ईनञ् ] ईनञ् प्रथमा सि । [प्रातिजनीनः ] प्रतिजन । प्रत्यर्था (यः) प्रतीतो वा जनः = प्रतिजनः । प्रतिजने साधुः ईन । 'वृद्धिः स्वरेष्वादेञ्णिति०' (७|४|१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७|४|६८) अलुक् । →>> ईनञ्प्र० [ आनुजनीनः ] अनुकूलोऽनुरूपो वा जनः = अनुजनः । अनुजने साधुः आनुजनीनः । अनेन ईनञ्प्र० ईन । 'वृद्धिः स्वरेष्वादणिति०' (७|४|१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७|४|६८) अलुक् । Jain Education International = = कथादेरिकण् ॥ ७१ ॥२१॥ प्रातिजनीनः । अनेन [ ऐदंयुगीन: ] इदंयुगे साधुः = ऐदंयुगीनः । अनेन ईनञ्प्र० → इन । 'वृद्धिः स्वरेष्वादेञ्णिति०' (७।४।१) वृद्धिः ऐ । ‘अवर्णेवर्णस्य' (७|४।६८) अलुक् । [ प्रतिजन ] जनं २ प्रति । 'योग्यता - वीप्साऽर्थानतिवृत्ति - सादृश्ये' (३ । १ । ४० ) इत्यादिना समासः । [ पञ्चजन ] चातुर्वर्णस्य पञ्चजन इति संज्ञा । [ परस्यकुल ] परस्य कुल २ । [ अमुष्यकुल ] अमुष्य कुल २ । अनयोर्गणपाठात् 'षष्ठ्याः क्षेपे' ( ३।२।३० ) इत्यनेन अलुप्समासः । यदा परकुलसम्बन्धित्वेन आक्षिप्यते । एवं "मनुष्यकुलेति" ॥छ For Personal & Private Use Only →> [ कथादे: ] कथा आदिर्यस्य सः = कथादिः, तस्मात् । [ इकण् ] इकण् प्रथमा सि । [ काथिकः ] कथायां साधुः = काथिकः । अनेन इकण्प्र० इक । 'वृद्धिः स्वरेष्वादेणिति तद्धिते' (७।४।१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७|४|६८) आलुक् । www.jainelibrary.org
SR No.004232
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 07
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2014
Total Pages450
LanguageHindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy