________________
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां ढुण्ढिकायां ।
[नाव्या नदी ] नावा तार्या = नाव्या नदी । अनेन यप्र० । 'य्यक्ये' (१।२।२५) आव् । 'आत्' (२।४।१८) आप्प्र० → आ ।
[विष्यः] विषेण वध्यो वधार्हः = विष्यः । अनेन यप्र० । 'अवर्णेवर्णस्य' (७४।६८) अलुक् । प्रथमा सि । 'सो रुः' (२।११७२) स० → र० ॥छ।।
न्यायार्थादनपेते ॥ ७।१।१३ ॥ [न्यायार्थात्] नि 'इंण्क् गतौ' (१०७५) इ । नियतमयनं = न्यायः । 'इणोऽभ्रेषे' (५।३।७५) घप्र० → अ । 'नामिनोऽकलि-हलेः' (४।३।५१) वृद्धिः ऐ । 'एदैतोऽयाय' (१।२।२३) आय् । अथवा 'णींग प्रापणे' (८८४) णी । 'पाठे धात्वादेो नः' (२।३।९७) नी । नीयत इति । 'न्याया-ऽवाया-ऽध्यायोद्याव-संहारा-ऽवहारा-5ऽधार-दार-जारम्' (५।३।१३४) इत्यादिना न्यायनिपात्यते । न्यायश्च अर्थश्च = न्यायार्थम्, तस्मात् ।
[अनपेते] न अपेतम् = अनपेतम्, तस्मिन् । [न्याय्यम् ] न्यायादनपेतं = न्याय्यम् । अनेन यप्र० । 'अवर्णेवर्णस्य' (७४।६८) अलुक् । [अर्थ्यम् ] अर्थादनपेतम् = अर्थ्यम् । अनेन यप्र० । 'अवर्णवर्णस्य' (७।४।६८) अलुक् ॥छ।।
__मत-मदस्य करणे ॥ ७।१।१४ ॥ [ मतमदस्य ] मतमदस्य पञ्चमी ङसि । सूत्रत्वाल्लुप् । [करणे] करण सप्तमी ङि । इष्ट अभिप्रेतं साम्यं समग्रज्ञानं प्रतीतं मतिर्मेधा वा मतशब्देनोच्यते । करणं साधकतमं कृतिर्वा । [मत्यम् ] मतस्य करणं = मत्यम् । अनेन यप्र० । 'अवर्णवर्णस्य' (७।४।६८) अलुक् । सि-अम् । [ मद्यम् ] मद । मदस्य करणं = मद्यम् । अनेन यप्र० । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । सि-अम् ॥छ।।
तत्र साधौ ॥ ७।१।१५ ॥ [तत्र ] तत्र पञ्चमी ङसि । सूत्रत्वाल्लुप् । [साधौ ] साधु सप्तमी ङि। साधुः प्रवीणो योग्य उपकारको वा ।
[सामन्यः] सामन् । सामनि साधुः = सामन्यः । अनेन यप्र० । 'अनोऽट्ये ये' (७।४।५१) इत्यन्त्यस्वरादिलोपाभावः ।
[वेमन्यः] वेमन् । वेमनि साधुः = वेमन्यः । अनेन यप्र० । 'अनोऽट्ये ये' (७४/५१) इत्यन्त्यस्वरादिलोपाभावः ।
[कर्मण्यः ] कर्मन् । कर्मणि साधुः = कर्मण्यः । अनेन यप्र० । 'अनोऽट्ये ये' (७।४।५१) इत्यन्त्यस्वरादिलोपाभावः । 'र-वर्णान्नो ण०' (२।३।६३) णत्वम् ।
[सभ्यः] सह-भा । सह भया वर्तत इति सभा । 'सहस्य सोऽन्यार्थे' (३।२।१४३) सभावः । सभायां साधुः = सभ्यः । अनेन यप्र० । 'अवर्णेवर्णस्य' (७४।६८) आलुक् । प्रथमा सि । 'सो रुः' (२।१७२) स० → र० ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org