________________
२६४
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां ढुण्ढिकायां ।
[सप्तकमासिकः] सप्त भृतिरस्य = सप्तकः । 'संख्या-डतेश्चाऽशत्-ति-प्टेः कः' (६।४।१३०) कप्र० । 'नाम्नो नोऽनह्नः' (२।१।९१) नलुक् । सप्तको मासोऽस्य = सप्तकमासिकः । अनेन इकः समासान्तः । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् ।
[विंशकमासिकः] विशति भतिरस्य = विशकः । “त्रिंशद्-विशतेर्डकोऽसंज्ञायामाऽर्हदर्थे' (६।४।१२९) डकप्र० → अक० । 'विशतेस्तेडिति' (७४।६७) तिलुक् । 'डित्यन्त्यस्वरादेः' (२।१।११४) अलुक् । विशको मासोऽस्य = विंशकमासिकः । अनेन इकः समासान्तः । 'अवर्णेवर्णस्य' (७/४/६८) अलुक् ।
[त्रिंशकमासिकः] त्रिंशत् भृतिरस्य = त्रिंशकः । 'त्रिंशद्-विशतेर्डकोऽसंज्ञायामाहदर्थे' (६।४।१२९) डकप्र० → अक० । 'डित्यन्त्यस्वरादेः' (२।१।११४) अत्लुक् । त्रिंशको मासोऽस्य = त्रिंशकमासिकः । अनेन इकः समासान्तः । 'अवर्णेवर्णस्य' (७४/६८) अलुक् ।
[शत्यमासिकः] शतं भृतिरस्य = शत्यः । शतात् केवलादतस्मिन् येकौ (६।४।१३१) यप्र० । 'अवर्णेवर्णस्य' (७/४/६८) अलुक् । शत्यो मासोऽस्य = शत्यमासिकः । अनेन इकः समासान्तः । 'अवर्णेवर्णस्य' (७४/६८) अलुक् ।
[शतिकमासिकः कर्मकरः] शतं भृतिरस्य = शतिकः । 'शतात् केवलादतस्मिन् येकौ' (६।४।१३१) इकप्र० । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । शतिको मासोऽस्य = शतिकमासिकः । अनेन इकः समासान्तः । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । कर्मकरः ।
[सुमासः ] शोभनो मासोऽस्य = सुमासः ।
[वार्षिकमासकः] वर्षासु भवः = वार्षिकः । 'वर्षा-कालेभ्यः' (६।३।८०) इकणप्र० → इक । 'वृद्धिः स्वरेष्वादेणिति तद्धिते' (७।४।१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७।४।६८) आलुक् । वार्षिको मासोऽस्य = वार्षिकमासकः । 'शेषाद् वा' (७।३।१७५) कच्समासान्तः → क।
[भृतिमासकः ] भृतिर्मासोऽस्य = भृतिमासिकः । 'शेषाद् वा' (७।३।१७५) कच्समासान्तः → क । 'इह भृतिशब्दो वर्त्तते न भृत्यर्थे प्रत्ययः ।
[पञ्चकदिवसकः] पञ्च भृतिरस्य = पञ्चकः । 'संख्या-डतेश्चाऽशत्-ति-ष्टेः कः' (६।४।१३०) कप्र० । पञ्चको दिवसोऽस्य = पञ्चकदिवसकः । 'शेषाद् वा' (७।३।१७५) कच्समासान्तः → क ॥छ।।
द्विपदाद् धर्मादन् ॥ ७।३।१४१ ॥ [द्विपदात्] द्वे पदे यस्य सः = द्विपदस्तस्मात् । [धर्मात् ] धर्म पञ्चमी ङसि । [अन् ] अन् प्रथमा सि ।
[साधुधर्मा ] साधूनामिव धर्मोऽस्य = साधुधर्मा । अनेन अन्समासान्तः । 'अवर्णेवर्णस्य' (७४।६८) अलुक् । प्रथमा सि । 'नि दीर्घः' (१।४।८५) दीर्घः । 'दीर्घझ्याब' (१।४।४५) सिलुक् । 'नाम्नो नोऽननः' (२।१।९१) नलुक् ।
[क्षत्रियधर्मा] क्षत्रियाणामिव धर्मोऽस्य = क्षत्रियधर्मा । अनेन अन्समासान्तः । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । प्रथमा सि । 'नि दीर्घः' (१।४।८५) दीर्घः । 'दीर्घझ्याब्०' (१।४।४५) सिलुक् । 'नाम्नो नोऽनह्नः' (२।१।९१) नलुक् ।
[अनन्तधर्मा] अनन्तो धर्मोऽस्य = अनन्तधर्मा । अनेन अन्समासान्तः । 'अवर्णेवर्णस्य' (७४।६८) अलुक् । प्रथमा सि । 'नि दीर्घः' (१।४।८५) दीर्घः । 'दीर्घङ्याब०' (१।४।४५) सिलुक् । 'नाम्नो नोऽनहनः' (२।१।९१) नलुक् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org