SearchBrowseAboutContactDonate
Page Preview
Page 288
Loading...
Download File
Download File
Page Text
________________ सप्तमाध्यायस्य तृतीयः पादः ॥ २६५ [विनाशधर्मा] विनाशरूपो धर्मोऽस्य = विनाशधर्मा । अनेन अन्समासान्तः । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । प्रथमा सि । 'नि दीर्घः' (१।४।८५) दीर्घः । 'दीर्घझ्याब्०' (१।४।४५) सिलुक् । 'नाम्नो नोऽनह्नः' (२।१।९१) नलुक् । [साक्षात्कृतधर्माणः] असाक्षात् साक्षात् कृतः = साक्षात्कृतः । 'साक्षादादिश्च्व्यर्थे' (३।१।१४) इति गतिसंज्ञा । 'गति-क्वन्यस्तत्पुरुषः' (३।१।४२) इत्यादिना तत्पुरुषः । साक्षात्कृतो धर्म एतैः(येषां ते) = साक्षात्कृतधर्माणः । अनेन अन्समासान्तः । 'अवर्णेवर्णस्य' (७४।६८) अलुक् । जस् । 'नि दीर्घः' (१।४।८५) दीर्घः । “र-वर्णान्नो ण.' (२।३।६३) णत्वम् । [कल्याणधर्मा, कल्याणधर्मकः] कल्याणरूपो धर्मोऽस्य = कल्याणधर्मा, कल्याणधर्मकः । मतान्तरे अनेनैव विकल्पेन अन्समासान्तः । 'अवर्णेवर्णस्य' (७४।६८) अलुक् । पक्षे-'शेषाद् वा' (७।३।१७५) कच् । [तद्धर्मा, तद्धर्मकः] स विवक्षितो धर्मोऽस्य = तद्धर्मा, तद्धर्मकः । मतान्तरे अनेनैव विकल्पेन अन्समासान्तः । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । पक्षे-'शेषाद् वा' (७।३।१७५) कच् । [विपरीतधर्मा, विपरीतधर्मकः ] विपरीतो धर्मोऽस्य = विपरीतधर्मा, विपरीतधर्मकः । मतान्तरे अनेनैव विकल्पेन अन्समासान्तः । 'अवर्णेवर्णस्य' (७४/६८) अलुक् । पक्षे-'शेषाद् वा' (७।३।१७५) कच् । [परमस्वधर्मः] परमः स्वो धर्मोऽस्य = परमस्वधर्मः । प्रथमा सि । 'सो रुः' (२।१।७२) स० → र० । [परमस्वधर्मः] स्वश्चासौ धर्मश्च = स्वधर्मः । परमः स्वधर्मोऽस्य = परमस्वधर्मः । प्रथमा सि । 'सो रुः' (२।१।७२) स० → र० । प्रत्यासत्तेर्द्विपदस्य बहुव्रीहेर्यदि धर्म एवोत्तरपदं भवति तदा अन् प्रत्यय: स्यात्, इतीह न भवति ॥छ।। सु-हरित-तृण-सोमाज्जम्भात् ॥ ७।३।१४२ ॥ [सुहरिततृणसोमात्] सुश्च हरितश्च तृणं च सोमश्च = सुहरिततृणसोमम्, तस्मात् । [जम्भात् ] जम्भ पञ्चमी ङसि । जम्भशब्दोऽभ्यवहार्यवचनो दंष्ट्रावचनो वा । उभयत्र पुं-स्त्रीलिङ्गः । [सुजम्भा] शोभनो जम्भो जम्भा वा अस्य = सुजम्भा । अनेन अन्समासान्तः । 'अवर्णेवर्णस्य' (७४।६८) अवर्णस्य लुक् । प्रथमा सि । 'नि दीर्घः' (१।४।८५) दीर्घः । [हरितजम्भा] हरितं जम्भो जम्भा वा यस्य = हरितजम्भा । अनेन अन्समासान्तः । अभ्यवहार्ये दंष्ट्रा जम्भाशब्दो वैयाकरणमते पुं-स्त्रीलिङ्गः । हरितवत् जम्भो जम्भा वा यस्य । [तृणजम्भा] तृणं जम्भो जम्भा वा अस्य = तृणजम्भा । अनेन अन्समासान्तः । 'अवर्णेवर्णस्य' (७४।६८) अवर्णस्य लुक् । प्रथमा सि । 'नि दीर्घः' (१।४।८५) दीर्घः । . [सोमजम्भा] सोमो जम्भोऽस्य = सोमजम्भा । अनेन अन्समासान्तः । 'अवर्णवर्णस्य' (७।४।६८) अवर्णस्य लुक् । प्रथमा सि । 'नि दीर्घः' (१।४।८५) दीर्घः । • दंष्ट्रापक्षे - [तृणजम्भा] तृणमिव जम्भोऽस्य = तृणजम्भा । अनेन अन्समासान्तः । 'अवर्णेवर्णस्य' (७।४।६८) अवर्णस्य लुक् । प्रथमा सि । 'नि दीर्घः' (१।४।८५) दीर्घः । [सोमजम्भा] सोम इव जम्भा अस्य = सोमजम्भा । अनेन अन्समासान्तः । 'अवर्णेवर्णस्य' (७।४।६८) अवर्णस्य लुक् । प्रथमा सि । 'नि दीर्घः' (१।४।८५) दीर्घः । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004232
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 07
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2014
Total Pages450
LanguageHindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy