SearchBrowseAboutContactDonate
Page Preview
Page 285
Loading...
Download File
Download File
Page Text
________________ २६२ श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां ढुण्ढिकायां । प्रजाया अस् ॥७।३।१३७ ॥ [प्रजायाः] प्रजा पञ्चमी ङसि । [अस् ] अस् प्रथमा सि । [अप्रजाः] अविद्यमाना प्रजा अस्य सः = अप्रजाः । अनेन अस्समासान्तः । 'अवर्णेवर्णस्य' (७४।६८) . आलुक् । सि । 'अभ्वादेरत्वसः सौ' (१।४।९०) दीर्घः । 'दीर्घङ्याब्-व्यञ्जनात् सेः' (१।४।४५) सिलुक् । 'सो रुः' (२।१।७२) स० → र० । [अप्रजसौ] अविद्यमाना प्रजा अनयोः तौ = अप्रजसौ । अनेन अस्समासान्तः । 'अवर्णेवर्णस्य' (७।४।६८) आलुक् । औ । [अप्रजसः] अविद्यमाना प्रजा एषां ते = अप्रजसः । अनेन अस्समासान्तः । 'अवर्णेवर्णस्य' (७।४।६८) आलुक् । जस् । 'सो रुः' (२।११७२) स० → र० । [सप्रजसौ ] शोभना प्रजा ययोः तौ = सप्रजसौ । अनेन अससमासान्तः । 'अवर्णेवर्णस्य' (७४।६८) आलक । औ । [ दुष्प्रजसौ ] दुष्टा प्रजा ययोः तौ = दुष्प्रजसौ । अनेन अस्समासान्तः । 'अवर्णवर्णस्य' (७४।६८) आलुक् । औ ॥छ। मन्दा-ऽल्पाच्च मेधायाः ॥ ७।३।१३८ ॥ [मन्दाऽल्पात्] मन्दश्च अल्पश्च = मन्दाल्पम्, तस्मात् । [च] च प्रथमा सि । [मेधायाः] मेधा पञ्चमी ङसि । [मन्दमेधाः] मन्दा मेधा अस्य = मन्दमेधाः । अनेन अस्समासान्तः । 'अवर्णेवर्णस्य' (७४/६८) आलुक् । सि । 'अभ्वादेरत्वस: सौ' (१।४।९०) दीर्घः । 'दीर्घझ्याब्-व्यञ्जनात् से:' (१।४।४५) सिलुक् । 'सो रु:' (२।१।७२) स० → र० । [मन्दमेधसौ] मन्दा मेधा अनयोः तौ = मन्दमेधसौ । अनेन असूसमासान्तः । 'अवर्णेवर्णस्य' (७४।६८) आलुक् । औ। [मन्दमेधसः] मन्दा मेधा एषां ते = मन्दमेधसः । अनेन अस्समासान्तः । 'अवर्णेवर्णस्य' (७४।६८) आलुक् । जस् । [अल्पमेधाः] 'मेधृग् सङ्गमे च' (९०९) मेध् । मेधनं = मेधा । 'क्तेटो गुरोर्व्यञ्जनात्' (५।३।१०६) अप्र० । 'आत्' (२।४।१८) आप्प्र० → आ । अल्पा मेधा अस्य = अल्पमेधाः । अनेन अस्समासान्तः । “अवर्णेवर्णस्य' (७।४।६८) आलुक् । सि । 'अभ्वादेरत्वसः सौ' (१।४।९०) दीर्घः । 'दीर्घयाब०' (१।४।४५) सिलुक । 'सो रुः' (२।१।७२) स० → र० । [अमेधाः] न विद्यते मेधा अस्य = अमेधाः । अनेन अस्समासान्तः । 'अवर्णेवर्णस्य' (७।४।६८) आलुक् । प्रथमा सि । 'अभ्वादेरत्वसः सौ' (१।४।९०) दीर्घः । 'दीर्घङ्याब्०' (१।४।४५) सिलुक् । 'सो रुः' (२।१।७२) स० → र० । [सुमेधाः] शोभना मेधा अस्य = सुमेधाः । अनेन अस्समासान्तः । 'अवर्णेवर्णस्य' (७४।६८) आलुक् । प्रथमा सि । 'अभ्वादेरत्वसः सौ' (१।४।९०) दीर्घः । 'दीर्घयाब्' (१।४।४५) सिलुक् । 'सो रुः' (२।१।७२) स० → र० । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004232
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 07
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2014
Total Pages450
LanguageHindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy