SearchBrowseAboutContactDonate
Page Preview
Page 282
Loading...
Download File
Download File
Page Text
________________ सप्तमाध्यायस्य तृतीयः पादः ॥ २५९ [कल्याणद्वितीयकान्यहानि] कल्याणं द्वितीयमहो येषामह्नां तानि = कल्याणद्वितीयकान्यहानि । 'शेषाद् वा' (७।३।१७५) कच्प्र० → क । जस् । 'नपुंसकस्य शिः' (१।४।५५) जस्० → शि० → इ० । 'स्वराच्छौ' (१।४६५) नोऽन्तः । “नि दीर्घः' (१।४।८५) दीर्घः । एवम्-अहानि । [कल्याणपञ्चमीकः पक्षः] कल्याणी पञ्चमी यस्य सः = कल्याणपञ्चमीकः । 'ऋन्नित्यदितः' (७।३।१७१) कच्प्र० → क । 'परतः स्त्री पुम्वत्०' (३।२।४९) इत्यादिना पुंवत् । पक्ष प्रथमा सि । 'सो रुः' (२।१।७२) स० → र० ॥छ।। नञ्-सु-व्युप-त्रेश्चतुरः ॥ ७।३।१३१ ॥ [नसुव्युपत्रेः] नञ् च सुश्च विश्च उपश्च त्रिश्च = नसुव्युपत्रि, तस्मात् । [चतुरः] चतुर् पञ्चमी ङसि । [अचतुरः] अविद्यमानानि अदृश्यानि वा चत्वारि यस्य सोऽचतुरः । अनेन अप्समासान्तः → अ । अत्र सामान्यो बहुव्रीहिः । प्रतिपदोक्तबहुव्रीहिग्रहणे तु 'एकार्थं चानेकं च' (३।१।२२) इति चकारेण विधीयमाने बहुव्रीही अचतुर इत्यादयो न स्युः । [सुचतुरः] सदृश्यानि शोभनानि वा चत्वारि यस्य = सुचतुरः । अनेन अप्समासान्तः → अ । सि । [विचतुरः] विसदृशानि विगतानि वा चत्वारि यस्य = विचतुरः । अनेन अप्अप्समासान्तः → अ । सि । [उपचतुराः] चत्वारः समीपे येषां संख्येयानां ते = उपचतुराः । अनेन अप्समासान्तः → अ । जस् । [त्रिचतुराः] त्रयो वा चत्वारो वा = त्रिचतुराः । अनेन अप्समासान्तः → अ । जस् । समासान्तविधेरनित्यत्वादिह न भवति [त्रिचत्वा उन्मुग्धः] त्रयश्चत्वारो वा यस्य सः = त्रिचत्वारुन्मुग्धः । सि । 'वाः शेषे' (१।४।८२) उ० → वा० । 'दीर्घङ्याब्-व्यञ्जनात् से:' (१।४।४५) सिलुक् । [ उपचत्वाः ] उपगताश्चत्वारो येन सः = उपचत्वाः । शेषं पूर्ववत् ॥छ।। अन्तर्बहिां लोम्नः ॥ ७।३।१३२ ॥ [अन्तर्बहिाम्] अन्तर् च बहिस् च = अन्तर्बहिषौ, ताभ्याम् = अन्तर्बहिया॑म् । पञ्चमी भ्याम् । [ लोम्नः ] लोमन् पञ्चमी ङसि । 'अनोऽस्य' (२।१।१०८) अलुक् । [अन्तर्लोमः ] अन्तर्लोमान्यस्य = अन्तर्लोमः । अनेन अप्समासान्तः → अ । 'नोऽपदस्य तद्धिते' (७।४।६१) अन्लुक् । [बाहर्लोमः प्रावारः] बहिर्लोमान्यस्य = बहिर्लोमः प्रावारः कम्बल उच्यते । अनेन अप्समासान्तः → अ । 'नोऽपदस्य तद्धिते' (७४।६१) अन्लुक् । 'वृगट वरणे' (१२९४) वृ, प्रपूर्व० । प्रवृण्वन्ति तमिति प्रावारः । 'वृगो वस्त्रे' (५।३।५२) इत्यनेन प्राप्तोऽल विकल्पपक्षे 'भावा-ऽकोंः ' (५।३।१८) घप्र० → अ । 'नामिनोऽकलि-हलेः' (४।३५१) वृद्धि: आर् । 'घञ्युपसर्गस्य बहुलम्' (३।२।८६) प्रस्य दीर्घः । प्रावारः कम्बलः स्मृतः ॥छ।। Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004232
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 07
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2014
Total Pages450
LanguageHindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy