________________
२५८
[ चतुरस्रः ] चतस्रोऽस्रयो यस्य = चतुरस्रः । अनेन डः समासान्तो निपात्यते ।
[ एणीपद: ] एण्या इव पादावस्य = एणीपदः मृगशिरः । अनेन डः समासान्तः पद्भावश्च निपात्यते । [ अजपद: ] अजस्येव पादावस्य = अजपदः मेषशिरः । अनेन डः समासान्तः पद्भावश्च निपात्यते ।
[ प्रोष्ठपदः ] प्रोष्ठो गौस्तस्येव पादावस्य = प्रोष्ठपदः । अनेन डः समासान्तः-पद्भावश्च निपात्यते ।
[ भद्रपदः ] भद्रौ पादावस्य = भद्रपदः । अनेन डः समासान्तः- पद्भावश्च निपात्यते ॥छ
पूरणीभ्यस्तत्प्राधान्येऽप् ॥ ७।३।१३० ॥
[ पूरणीभ्यस्तत्प्राधान्ये ] 'पूरी (रै) चि आप्यायने' (१२६८) पूर् । पूर्यतेऽनयेति । 'करणा-ऽऽधारे' (५।३।१२९) अनट्प्र० → अन । 'अणञेयेकण्०' (२४।२०) ङी । 'र- पृवर्णान्नो ण० ' (२२३।६३) णत्वम् । पञ्चमी भ्यस् । तस्या:पूरण्याः प्राधान्यं तत्प्राधान्यम्, तस्मिन् ।
=
[ अप्] अप् प्रथमा सि ।
पूरणप्रत्ययान्तः स्त्रीलिङ्गशब्दः पूरणी ।
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां दुण्डिकायां ।
[ कल्याणीपञ्चमा रात्रयः ] कल्याण 'गौरादिभ्यो मुख्यान्ङीः ' (२|४|११ ) ङी । पञ्चन् । पञ्चानां पूरणी पञ्चमी । 'नो मट्' (७|१|१५९) मट्प्र० म । 'नाम्नो नोऽननः' (२।१।९१) नलुक् । 'अणञेयेकण्०' (२।४।२०) ङी । कल्याणी पञ्चमी रात्रिर्यासां रात्रीणां ताः = कल्याणीपञ्चमा रात्रयः । अनेन अप्समासान्तः अ । 'अवर्णेवर्णस्य' (७|४|६८) ईलुक् । ‘आत्' (२|४|१८) आप्प्र० → आ । जस् । 'परतः स्त्री० ' ( ३।२।४९) इत्यादिना प्राप्तस्य पुंवद्भावस्य 'नाऽप्-प्रियाऽऽदौ' ( ३।२।५३) पुंवन्निषेधः । अत्र रात्रयः समासार्थः, तासु पञ्चम्यापि रात्रित्वेनानुप्रविष्टेति प्राधान्यम् ।
[ कल्याणीदशमा: ] कल्याणी दशमी रात्रिर्यासां रात्रीणां ताः = कल्याणीदशमाः । शेषं पूर्ववत् । दशानां पूरणी दशमी । 'नो मट्' (७|१|१५९) मट्प्र० म । 'अणञेयेकण्०' (२।४।२० ) ङी ।
[ कल्याणीद्वितीयाः] द्वयोः पूरणी = द्वितीया । 'द्वेस्तीय:' ( ७|१|१६५) तीयप्र० । 'आत्' (२|४|१८) आप्प्र० आ । कल्याणी द्वितीया रात्रिर्यासां रात्रीणां ताः = कल्याणीद्वितीयाः । अनेन अप्समासान्तः । शेषं पूर्ववत् ।
[ कल्याणीतुर्याः, कल्याणीतुरीयाः ] चतुर् मण्ड्यते । चतुर्णां पूरणी = तुरीया । 'येयौ चलुक् च' (७|१।१६४) ईयप्र० - चलुक् च । 'आत्' (२|४|१८) आप्प्र० आ । कल्याणी तुर्या तुरीया वा रात्रिर्यासां रात्रीणां ताः = कल्याणीतुर्याः, कल्याणीतुरीयाः । अनेन अप्समासान्तः । शेषं पूर्ववत् ।
[ कल्याणपञ्चमका दिवसाः ] कल्याणः पञ्चमो येषां ते कच्प्र० क । जस् ।
Jain Education International
[ कल्याणीतृतीयाः ] त्रयाणां पूरणी = तृतीया । 'स्तृ च' (७|१|१६६ ) तीयप्र० - त्रिशब्दस्य तृदेशश्च । 'आत्' (२।४।१८) आप्प्र० आ । कल्याणी तृतीया रात्रिर्यासां रात्रीणां ताः = कल्याणीतृतीयाः । अनेन अप्समासान्तः । शेषं पूर्ववत् ।
=
[द्वितीयाकल्याणीकाः ] द्वितीया भार्या कल्याणी यासां भार्याणां ताः द्वितीयाकल्याणीका: । 'ऋन्नित्यदितः ' (७|३|१७१) कच्प्र० । 'आत्' (२|४|१८) आप्प्र० आ । जस् । ' तद्धिताऽककोपान्त्य - पूरण्याख्या:' ( ३।२।५४) इत्यादिना पुंवन्निषेधः ।
=
=
For Personal & Private Use Only
= कल्याणपञ्चमका दिवसाः । शेषाद् वा' (७।३।१७५)
www.jainelibrary.org