________________
सप्तमाध्यायस्य तृतीयः पादः ॥
२५७
[त्रिदशाः] त्रि-दशन् । त्रिर्दश = त्रिदशाः । अनेन डः समासान्तः → अ । 'डित्यन्त्य०' (२।१।११४) अन्लोपः । प्रथमा जस् ।
[आसन्नदशाः] आसन्ना दश येषां ते = आसन्नदशाः । अनेन डः समासान्तः → अ । 'डित्यन्त्यस्वरादेः' (२।१।११४) अन्लुक् । जस् । 'आसन्ना-ऽदूरा-ऽधिका-ऽध्य -ऽर्धादिपूरणं द्वितीयाद्यन्यार्थे' (३।१।२०) इत्यनेन समासः ।
अदरदशाः 1 अदरा दश येषां ते = अदरदशाः । अनेन डः समासान्तः । अ। 'डित्यन्त्यस्वरादेः' (२।१।११४) अन्लुक् । जस् । 'आसन्ना-ऽदूरा०' (३।१।२०) इत्यनेन समासः ।
[अधिकदशाः] अधिका दश येषां ते = अधिकदशाः । अनेन डः समासान्तः → अ । 'डित्यन्त्यस्वरादेः' (२।१।११४) अन्लुक् । जस् । 'आसन्ना-ऽदूरा०' (३।१।२०) इत्यनेन समासः ।
[ उपदशाः ] उप-समीपे दश येषां ते = उपदशाः । अनेन डः समासान्तः → अ । 'डित्यन्त्यस्वरादेः' (२।१।११४) अन्लुक् । जस् । “अव्ययम्' (३।१।२१) इत्यनेन समासः ।
[उपगणाः] उप-समीपे गणा येषां ते = उपगणाः । अनेन डः समासान्तः → अ । 'डित्यन्त्यस्वरादेः' (२।१।११४) अन्त्यस्वरादिलोपः । जस् । 'अव्ययम्' (३।१।२१) इत्यनेन समासः ।
प्रमाणशब्देन सिद्धे प्रमाणीशब्दान्तात् कजभावार्थं वचनम् । [अत्रिः] न विद्यन्ते त्रयो यस्य सोऽत्रिः । [सुत्रिः] शोभना त्रयो यस्य सः = सुत्रिः । [प्रियपञ्चानः ] प्रियाः पञ्च येषां ते = प्रियपञ्चानः । जस् । | प्रियषषः1 प्रियाः षड येषां ते = प्रियषषः । जस ।
[ द्वादश] द्वाभ्यामधिका दश = द्वादश । 'द्वि-त्र्यष्टानां द्वा-त्रयोऽष्टाः प्राक् शतादनशीति-बहुव्रीहौ' (३।२।९२) इत्यादिना द्वादश निपात्यते । जस् । 'डति-ष्णः संख्याया लुप्' (१।४।५४) लुप् ।
[त्रयोदश] त्रिभिरधिका दश = त्रयोदश । "द्वि-त्र्यष्टानां द्वा-त्रयोऽष्टाः प्राक्०' (३।२।९२) इत्यादिना त्रयोदश निपात्यते । जस् । 'डति-ष्णः संख्याया लुप्' (१।४।५४) लुप् ॥छ।।
सुप्रात-सुश्व-सुदिव-शारिकुक्ष-चतुरस्त्रैणीपदा-ऽजपद-प्रोष्ठपद-भद्रपदम् ॥ ७।३।१२९ ॥ [सुप्रातसुश्वसुदिवशारिकुक्षचतुरस्त्रैणीपदाऽजपदप्रोष्ठपदभद्रपदम्] सुप्रातश्च सुश्वश्च सुदिवश्च शारिकुक्षश्च चतुरस्रश्च एणीपदश्च अजपदश्च प्रोष्ठपदश्च भद्रपदश्च = सुप्रातसुश्वसुदिवशारिकुक्षचतुरस्रैणीपदाऽजपदप्रोष्ठपदभद्रपदम् ।
[सुप्रातः] शोभनं कर्म प्रातरस्य = सुप्रातः । अनेन डः समासान्तः → अ । 'प्रायोऽव्ययस्य' (७।४।६५) अन्त्यस्वरादिलोपः ।
[सुश्वः] शोभनं कर्म श्वोऽस्य = सुश्वः । अनेन डः समासान्तः → अ। [सुदिवः] शोभनं कर्म दिवाऽस्य = सुदिवः । अनेन डः समासान्तः → अ ।
[शारिकुक्षः] शारेरिव कुक्षिरस्य = शारिकुक्षः । अनेन डः समासान्तः २ अ । 'डित्यन्त्यस्वरादेः' (२।१।११४) अन्त्यस्वरादिलोपः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org