________________
२५६
अप्राणिस्थत्वादस्वाङ्गता अत्रोक्ता ।
[ स्थूलाक्षिरिक्षुः ] स्थूले अक्ष्णी (अक्षिणी) यस्य सः = स्थूलाक्षिरिक्षुः । प्रथमा सि । 'सो रुः' (२।१।७२ ) स० र० । 'अक्ष्णोऽप्राण्यङ्गे' (७।३।८५) इत्यनेनापि न भवति - समासान्तविधिरनित्यत्वात् न्यासः ।
[ परमसक्थि ] परमं च तत् सक्थि च = परमसक्थि । सि । 'अनतो लुप्' (१|४|५९) लुप् ।
[ सदक्षि] सच्च तदक्षि च = सदक्षि । सि । 'अनतो लुप् ' (१|४|५९) लुप् ॥छ ।
द्वि-त्रेर्मूर्ध्ना वा ॥ ७।३।१२७ ॥
[द्वित्रे:] द्विश्च त्रिश्च द्वित्रि, तस्मात् ।
=
[ मूर्ध्नः ] मूर्धन् पञ्चमी ङसि ।
[ वा ] वा प्रथमा सि ।
[ द्विमूर्धः, द्विमूर्धा ] द्वौ मूर्धानौ यस्य सः = द्विमूर्धः । अनेन टः समासान्तः → अ । 'नोऽपदस्य तद्धिते' (७|४|६१) अन्लुक् । एवम् - द्विमूर्धा । 'नि दीर्घः' (१|४|८५) दीर्घः ।
[ त्रिमूर्धः, त्रिमूर्धा ] त्रयो मूर्धानो यस्य सः = त्रिमूर्धः । अनेन टः समासान्तः → अ । 'नोऽपदस्य तद्धिते'.. (७|४|६१) अन्लुक् । एवम् त्रिमूर्धा । 'नि दीर्घः' (१।४।८५) दीर्घः ।
[द्विमूर्धी स्त्री ] द्वौ मूर्धानौ यस्याः सा = द्विमूर्धी । अनेन टः समासान्तः अ । 'अणञेयेकण्०' (२।४।२० ) ङी । [द्वमूर्धा ] द्वयोर्मूर्धा द्विमूर्धा । 'नि दीर्घः' (१।४।८५) दीर्घः ॥छ||
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां तुण्डिकायां ।
प्रमाणी- संख्याड्डुः ॥ ७।३।१२८ ॥
[प्रमाणीसंख्यात् ] प्रमीयतेऽनयेति प्रमाणी । 'करणा - ऽऽधारे' (५|३|१२९) अनट्प्र० अन । 'अणञेयेकण्नञ्-स्नञ्-टिताम्' (२।४।२० ) ङी । प्रमाणी च संख्या च = I प्रमाणीसंख्यम् । 'क्लीबे' (२।४।९७) ह्रस्वः, तस्मात् ।
[ड: ] ड प्रथमा सि । 'सो रु: ' (२।१।७२) स०र० ।
[ स्त्रीप्रमाणा: कुटुम्बिनः ] स्त्री प्रमाणी येषां ते = स्त्रीप्रमाणाः । अनेन डः समासान्तः -> अ । 'डित्यन्त्यस्वरादेः' (२।१।११४ ) ईलुक् ।
[ भार्याप्रमाणाः श्रेणयः ] भार्या प्रमाणा येषां ते = भार्याप्रमाणाः । अनेन डः समासान्तः अ ।
अ ।
[ कल्याणप्रमाण: ] कल्याणी प्रमाणी अस्य सः कल्याणप्रमाणः । अनेन डः समासान्तः → ‘डित्यन्त्यस्वरादेः' (२|१|११४) ईलुक् ।
[द्विदशा: ] द्विदशन् । द्विर्दश अन्लोपः । प्रथमा जस् ।
[ द्वित्राः ] द्वौ वा त्रयो वा = द्वित्रा: । 'सुज्वार्थे संख्या संख्येये संख्यया बहुव्रीहि:' ( ३|१|१९) इत्यादिना समासः । पञ्चषाः ] पञ्च वा षड् वा = पञ्चषा: । अनेन डः समासान्तः → अ । 'डित्यन्त्यस्वरादेः' (२|१|११४) अन्त्यस्वरादिलोपः ।
Jain Education International
=
=
द्विदशाः । अनेन डः समासान्तः अ । 'डित्यन्त्यस्वरादेः' (२|१|११४)
For Personal & Private Use Only
www.jainelibrary.org