________________
सप्तमाध्यायस्य तृतीयः पादः ॥
२५५
अङ्गुलिसदृशावयवं धान्यकण्टकादीनां विक्षेपणकाष्ठमेवमुच्यते ।
[उपाङ्गुलि] अङ्गुले: समीपमुपाङ्गुलि । सि । 'अमव्ययीभावस्याऽतोऽपञ्चम्याः' (३।२।२) अम् । 'अनतो लुप्' (३।२।६) लुप् ।।
[अत्यगुला यष्टिः] अङ्गुलिमतिक्रान्ता = अत्यगुला यष्टिः । 'संख्या-ऽव्ययादगुलेः' (७३।१२४) ड: समासान्तः → अ । 'डित्यन्त्यस्वरादेः' (२।१।११४) इलुक् । 'आत्' (२।४।१८) आप्प्र० → आ ।
[पञ्चाङ्गुलिहस्तः] पञ्च अगुलयो यस्मिन् सः = पञ्चागुलिर्हस्तः । 'नामग्रहणे लिङ्गविशिष्टस्य०' (न्या० वक्ष०(१)/सूत्र(१६) इत्यनङ्गीकारात् अङ्गुलेरिति निर्देश इत्युक्तम् ।
[द्वयगुलीकं दारु] द्वावमुलीसदृशाववयवौ यस्य तत् = व्यगुलीकं दारु । 'ऋन्नित्यदितः' (७।३।१७१) कच्प्र० → क । 'न कचि' (२।४।१०५) इत्यनेन हुस्वत्वाभावः ।
[दीर्घाङ्गुली] दीर्घा अगुलयो यस्यां सा = दीर्घाङ्गुली । अनेन टप्र० → अ । 'अवर्णेवर्णस्य' (७४।६८) इवर्णस्य लुक् । 'अणजेयेकण्०' (२।४।२०) ङी ।
[तीक्ष्णाङ्गुली यष्टिः] तीक्ष्णा अगुली यस्यां सा = तीक्ष्णाङ्गली यष्टिः । अनेन टप्र० → अ । 'अवर्णेवर्णस्य' (७।४।६८) इवर्णस्य लुक् । 'अणजेयेकण्o' (२।४।२०) ङी । यष्टिः ॥छ।।
सक्थ्यक्ष्णः स्वाङ्गे॥ ७।३।१२६ ॥
[सक्थ्यक्ष्णः] सक्थि च अक्षि च = सक्थ्यक्षि, तस्मात् ।
[स्वाङ्गे] स्वस्याङ्गं = स्वाङ्गम्, तस्मिन् । . [दीर्घसक्थः, दीर्घसक्थी] दीर्घ सक्थि अस्य = दीर्घसक्थः । अनेन टः समासान्तः → अ । एवम्-दीर्घसक्थी । 'अणजेयेकण्' (२।४।२०) ङी ।
[गौरसक्थः, गौरसक्थी] गौरं सक्थि अस्य = गौरसक्थः । अनेन टः समासान्तः → अ । 'अवर्णेवर्णस्य' (७।४।६८) इलुक् । गौरं सक्थि अस्या = गौरसक्थी । अनेन टः समासान्तः → अ । 'अवर्णेवर्णस्य' (७।४।६८) इलुक् । 'अणजेयेकण्०' (२।४।२०) ङी।
[विशालाक्षः, विशालाक्षी] विशालमक्षि यस्य यस्या वा = विशालाक्षः, विशालाक्षी । अनेन टः समासान्तः → अ । 'अणजेयेकण्' (२।४।२०) ङी ।
[कमलाक्षः, कमलाक्षी] कमलवत् अक्ष्णी(अक्षिणी) यस्य यस्या वा = कमलाक्षः, कमलाक्षी । अनेन टः समासान्तः → अ । 'अणजेयेकण्०' (२।४।२०) ङी । . [स्वक्षः, स्वक्षी] शोभने अक्ष्णी(अक्षिणी) यस्य यस्या वा = स्वक्षः, स्वक्षी । अनेन टः समासान्तः → अ । 'अणजेयेकण्' (२।४।२०) ङी ।
[सुबाहुः ] शोभनौ बाहू अस्य = सुबाहुः । प्रथमा सि । 'सो रु:' (२।१।७२) स० → र० । [दीर्घजानुः ] दीर्घ जानुनी अस्य = दीर्घजानुः । प्रथमा सि । 'सो रुः' (२।१।७२) स० → र० । [दीर्घसक्थि शकटम् ] दीर्घ सक्थि यस्य तत् = दीर्घसक्थि शकटम् । सि । 'अनतो लुप्' (१।४।५९) लुप् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org