SearchBrowseAboutContactDonate
Page Preview
Page 273
Loading...
Download File
Download File
Page Text
________________ २५० श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां ढुण्ढिकायां । [मध्याह्नः] मध्यमहः = मध्याह्नः । अनेन अट्समासान्त:-"अह्न"देशश्च । [सायाह्नः] सायमहः = सायाह्नः । अनेन अट्समासान्त:-"अह्र"देशश्च । 'सायाह्रादयः' (३।१।५३) इत्यनेन सायंसम्बन्धिनो म्लुक् । [व्यह्नः पटः, व्यही अष्टका] द्वयोरहोर्भवः = व्यह्नः पटः । एवम्-व्यही अष्टका । अनेन अट्समासान्त:"अह्न"देशश्च । 'अणजेयेकण्-नञ्' (२।४।२०) ङी । [त्र्यह्नः ] त्रिषु अहःसु भवः = त्र्यह्नः । अनेन अट्समासान्त:-"अह"देशश्च । [त्र्यही ] त्रिषु अहःसु भवा = त्र्यही । अनेन अंट्समासान्त:-"अह्न"देशश्च । 'अणजेयेकण्' (२।४।२०) ङी । चतुर्ध्वपि उदाहरणेषु 'भवे' (६।३।१२३) अण्प्र० । 'द्विगोरनपत्ये०' (६।१।२४) लुप् । [व्यह्नप्रियः] द्वे अहनी प्रिये अस्य = व्यह्नप्रियः । अनेन अट्समासान्तः-"अ"देशश्च । [त्र्यप्रियः] त्रीण्यहानि प्रियाणि यस्य सः = त्र्यह्नप्रियः । अनेन अट्समासान्त:-"अह"देशश्च । [द्वयह्नजातः] द्वे अहनी जातस्य = व्यह्रजातः । अनेन अट्समासान्त:-"अह"देशश्च । [त्र्यह्नजातः] त्रीण्यहानि जातस्य = त्र्यह्रजातः । अनेन अट्समासान्त:-"अह्न"देशश्च । 'कालो द्विगौ च मेयैः' (३।१।५७) इत्यादिना समासः । अव्यय - [अत्यह्नः] अतिक्रान्तमहः = अत्यह्नः । अनेन अट्समासान्त:-"अह्न"देशश्च । [अत्यही कथा] अहरतिक्रान्ता = अत्यही कथा । अनेन अट्समासान्त:-"अह्न"देशश्च । 'अणजेयेकण्०' (२।४।२०) ङी । [निरह्नः] निःक्रान्तोऽह्नः = निरहः । अनेन अट्समासान्त:-"अह्न"देशश्च । [निरही वेला] नि:क्रान्ता अह्नः = निरही वेला । अनेन अट्समासान्त:-"अह्न"देशश्च । 'अणजेयेकण्' (२।४।२०) ङी। [व्यतः] विगतमहः = व्यतः । अनेन अटसमासान्त:-"अह"देशश्च । [व्यही ] विगता अह्नः = व्यह्नी । अनेन अट्समासान्त:-"अह्न"देशश्च । 'अणजेयेकण्' (२।४।२०) ङी ॥छ। संख्यातैक-पुण्य-वर्षा-दीर्घाच्च रात्रेरत् ॥ ७।३।११९ ॥ [संख्यातैकपुण्यवर्षादीर्घात् ] संख्यातश्च एकश्च पुण्यं च वर्षा च दीर्घश्च = संख्यातैकपुण्यवर्षादीर्घम्, तस्मात् । [च] च प्रथमा सि । [रात्ररत् ] रात्रि पञ्चमी ङसि । अत् प्रथमा सि । [संख्यातरात्रः] संख्याता रात्रिः = संख्यातरात्रः । [एकरात्रः] एका रात्रिः = एकरात्रः । [पुण्यरात्रः] पुण्या रात्रिः = पुण्यरात्रः । [वर्षारात्रः] वर्षाणां रात्रिः = वर्षारात्रः । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004232
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 07
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2014
Total Pages450
LanguageHindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy