________________
सप्तमाध्यायस्य तृतीयः पादः ॥
२४९
[परमसरः] परमं च तत् सरश्च = परमसरः । [सदनः] संश्चासौ अनश्च = सदनः । [सदश्मा] संश्चासौ अश्मा च = सदश्मा । प्रथमा सि । 'नि दीर्घः' (१।४।८५) दीर्घः । [बिन्दुसरः] बिन्दूनां सरः = बिन्दुसरः । [बकसरः] बकानां सरः = बकसरः इति नैषा संज्ञा । रूढ्या ह्यत्र संज्ञाविधानं शूर्पनखीवत् । [शूर्पनखीवत्] शूर्पाकारा नखा यस्याः सा = शूर्पनखी । 'नख-मुखादनाम्नि' (२।४।४०) ङी ॥छ।।
अह्नः ॥ ७।३।११६ ॥ [अह्नः] अहन् पञ्चमी ङसि । 'अनोऽस्य' (२।१।१०८) अलुक् ।
[ परमाहः] परमं च तद् अहश्च = परमाहः । अनेन अट्समासान्तः → अ । 'नोऽपदस्य तद्धिते' (७४।६१) अन्लुक् । .
[उत्तमाहः] उत्तमं च तद् अहश्च = उत्तमाहः । अनेन अट्समासान्तः → अ । 'नोऽपदस्य०' (७४।६१) अन्लुक् । [एकाहम् ] एकं च तदहश्च = एकाहम् । अनेन अट्समासान्त: → अ । 'नोऽपदस्य०' (७४।६१) अन्लुक् । [पुण्याहम् ] पुण्यं च तदहश्च = पुण्याहम् । अनेन अट्समासान्तः → अ । 'नोऽपदस्य०' (७४६१) अन्लुक् । [सुदिनाहम् ] सुदिनं च तदहश्च = सुदिनाहम् । अनेन अट्समासान्त: → अ । 'नोऽपदस्य०' (७४।६१) अन्लुक् ॥छ।।
संख्यातादहश्च वा ॥ ७।३।११७ ॥ [संख्यातात् ] संख्यायते स्म = संख्यातम्, तस्मात् । [अह्नः] अह्न प्रथमा सि । [च] च प्रथमा सि । [वा] वा प्रथमा सि ।
[संख्याताह्नः, संख्याताहः] संख्यातमहः = संख्याताह्नः, संख्याताहः । अनेन अट्समासान्तः - अह्नदेशश्च । सि । द्वितीये 'अह्नः' (७।३।११६) अट्समासान्तः । 'नोऽपदस्य तद्धिते' (७४।६१) अन्लुक् । अह्नादेशार्थं वचनम्, अट् तु पूर्वेणैव सिद्धः । चकार उत्तरत्राह्लादेशस्याट्संनियोगशिष्टत्वार्थः ॥छ।।
सर्वां-ऽश-संख्या-ऽव्ययात् ॥ ७।३।११८ ॥ [सर्वांऽशसंख्याऽव्ययात्] सर्वश्च अंशश्च संख्या च अव्ययश्च = सर्वांऽशसंख्याऽव्ययम्, तस्मात् । [ सर्वाणः ] सर्वमहः = सर्वाह्नः । अनेन अट्समासान्त:-"अह"देशश्च । 'अतोऽह्रस्य' (२।३।७३) णत्वम् । अंश - [ पूर्वाह्नः ] पूर्वमहः = पूर्वाह्नः । अनेन अट्समासान्त:-"अह्न"देशश्च । 'अतोऽहस्य' (२।३।७३) णत्वम् । [अपराह्नः] अपरमहः = अपराह्नः । अनेन अट्समासान्तः-"अ"देशश्च । 'अतोऽह्नस्य' (२।३।७३) णत्वम् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org