SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ २४८ श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां ढुण्ढिकायां । [अश्वोरसम्] अश्वानामुरः = अश्वोरसम् । अनेन अट्समासान्तः → अ । अश्वानां प्रधानमित्यर्थः । [हस्त्युरसम्] हस्तिनामुरः = हस्त्युरसम् । अनेन अट्समासान्तः । [ रथोरसम्] रथस्योरः = रथोरसम् । अनेन अट्समासान्तः । . [अश्वोरस्यावर्त्तः ] अश्वानामुरः = अश्वोरस्तस्मिन् = अश्वोरस्यावर्त्तः ॥छ।। ___ सरो-ऽनो-ऽश्मा-ऽयसो जाति-नाम्नोः ॥ ७।३।११५ ॥ [ सरोऽनोऽश्माऽयसः ] सराश्च अनाश्च अश्मा च अयाश्च = सरोऽनोऽश्माऽयस्, तस्मात् । [जातिनाम्नोः] जातिश्च नाम च = जातिनाम्नी, तयोः = जातिनाम्नोः । सप्तमी ओस । जातौ अभिधेयायां नाम्नि च विषये इदं च विशेषणं यथासम्भवं क्वापि जातौ क्वापि नाम्नि चेत्यर्थः । [जालसरसम्] जालप्रधानं सरः = जालसरसम् । अनेन अट्समासान्तः → अ । अम् । [मण्डूकसरसम्] मण्डूकप्रधानं सरः = मण्डूकसरसम् । अनेन अट्समासान्तः → अ । अम् । एवंनाम्नी सरसी । [उपानसम्] उप अनस् मण्ड्यते । उपगतमनः = उपानसम् । अनेन अट्समासान्तः → अ । अन्नविशेषस्य संज्ञा जातिर्वा । [महानसम्] महच्च तद् अनश्च = महानसम् । अनेन अट्समासान्तः → अ । 'सन्महत्परमोत्तमोत्कृष्टं पूजायाम्' (३।१।१०७) इत्यादिना समासः । 'जातीयैकार्थेऽच्वेः' (३।२।७०) डा० । 'डित्यन्त्यस्वरादेः' (२।१।११४) अत्लुक् । पाकस्थानस्य संज्ञा । राज्ञ उपस्थितं ढौकनिकामित्यर्थः इत्येके। . . [गोनसं जातिः ] गोरन इव = गोनसं जातिः । अनेन अट्समासान्तः → अ । अहिजाति बाहुलकानपुंसकः । [स्थूलाश्मः] स्थूलश्चासौ अश्मा च = स्थूलाश्मः । अनेन अट्समासान्तः → अ । 'नोऽपदस्य०' (७।४।६१) अन्लुक् । [अमृताश्मः] अमृतश्चासावश्मा च = अमृताश्मः । अनेन अट्समासान्तः → अ । 'नोऽपदस्य०' (७।४।६१) अन्लुक् । [कनकाश्मः] कनकश्चासावश्मा च = कनकाश्मः । अनेन अट्समासान्तः → अ । 'नोऽपदस्यः' (७४/६१) अन्लुक् । अश्मजातिविशेषा एते । [पिण्डाश्मः संज्ञा जातिर्वा ] पिण्डश्चासावश्मा च = पिण्डाश्मः । अनेन अट्समासान्तः → अ । 'नोऽपदस्य०' (७४।६१) अन्लुक् । [कालायसम्] कालं च तद् अयश्च = कालायसम् । अनेन अट्समासान्तः । [ लोहितायसम् ] लोहितमयः = लोहितायसम् । अनेन अट्समासान्तः → अ । [तीक्ष्णायसम्] तीक्ष्णं च अयश्च = तीक्ष्णायसम् । अयोजातिविशेषा एते । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004232
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 07
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2014
Total Pages450
LanguageHindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy