________________
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां बुण्डिकायां ।
[पद्याः शर्कराः ] पाद । पादौ विध्यन्ति = पद्याः शर्कराः । अनेन यप्र० । 'हिम- हति काषि-ये पद्' (३/२/९६) पादस्य पद्० । जस् ।
४
[ ऊरव्याः कण्टकाः ] ऊरू विध्यन्ति = ऊरव्याः । अनेन यप्र० । 'अस्वयम्भुवोऽव्' (७|४|७०) अव् । जस् ।
कण्टकाः ।
[ उरस्या वाता: ] उरस् । उरो विध्यन्ति = उरस्या वाताः । अनेन यप्र० । जस् ॥छ||
धन- गणाल्लब्धरि ॥ ७॥१॥९ ॥
[ धनगणात् ] धनश्च गणश्च = धनगणम्, तस्मात् ।
[लब्धरि ] 'डुलभष् प्राप्तौ' (७८६) लभ् । लभत इत्येवंशीलः । 'तृन् शील- धर्म - साधुषु' (५/२/२७) तृन्प्र० तृ । 'अधश्चतुर्थात् तथोर्धः' (२ १७९) त० ध० । 'धुटस्तृतीयः' (२२१७६) भ० ब०(?) ('तृतीयस्तृतीय०'
( १ | ३ | ४९ ) भ० ब० ), तस्मिन् ।
[ धन्यः ] धन । धनं लब्धा = धन्यः । अनेन यप्र० । 'अवर्णेवर्णस्य' (७|४|६८) अलुक् ।
[गण्यः ] गणं लब्धा = गण्यः । अनेन यप्र० । 'अवर्णवर्णस्य' (७|४|६८) अलुक् ।
लब्धेति तृन्नन्तम् । अयमभिप्रायः स्यादित्याशङ्कायां तृन्नन्तमित्याह || ||
'णक-तृचौ' (५।१।४८) इत्यनेन तृच्प्रत्यये धन-गणशब्दाभ्यां षष्ठी
णोऽन्नात् ॥ ७|१|१० ॥
[णोऽन्नात् ] ण प्रथमा सि । अन्न पञ्चमी ङसि ।
[ आन्नः] अन्न । अन्नं लब्धा = आन्नः । अनेन णप्र० अ । 'वृद्धिः स्वरेष्वादेञ्णिति तद्धिते' (७|४|१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७|४|६८) अलुक् ॥छ
हृद्य-पद्य-तुल्य-मूल्य-वश्य-पथ्य-वयस्य- धेनुष्या-गार्हपत्य जन्य-धर्म्यम् ॥ ७|१|११ ॥
[हद्यपद्यतुल्यमूल्यवश्यपथ्यवयस्यधेनुष्यागार्हपत्यजन्यधर्म्यम् ] हृद्यश्च पद्यश्च तुल्यश्च मूल्यश्च वश्यश्च पथ्यश्च वयस्यश्च धेनुष्या च गार्हपत्यश्च जन्यश्च धर्म्यश्च = हृद्यपद्यतुल्यमूल्यवश्यपथ्यवयस्यधेनुष्यागार्हपत्यजन्यधर्म्यम् । सि । 'अतः स्यमोऽम् ' (१|४|५७) अम् । 'समानादमोऽतः ' (१।४।४६ ) अलुक् ।
[हृद्यमौषधम् ] हृदयस्य प्रियं = हृद्यमौषधम् । अनेन यप्र० । 'हृदयस्य हल्लास - लेखा - ऽण्-ये' (३।२।९४) हृदयस्य "हृद्” आदेशः ।
[ हृद्यो देश: ] हृदयस्य प्रियो देशः = हृद्यः । अनेन यप्र० । 'हृदयस्य हल्लास ० ' ( ३।२।९४) हृदयस्य " हृद्" आदेशः । [ हृद्यो वशीकरणमन्त्रः ] हृदयस्य बन्धनः = हृद्यो वशीकरणमन्त्रः । अनेन यप्र० । 'हृदयस्य हल्लास० ' ( ३।२।९४) हृदयस्य "हृद्” आदेशः ।
Jain Education International
[ पद्यः कर्दमः ] पद । पदं प्रतिबिम्बमस्मिन् दृश्यं = पद्यम् । अनेन यप्र० । 'अवर्णेवर्णस्य' (७|४|६८) अलुक् । कर्द्दमो नातिद्रवो नातिशुष्कः । यत्र प्रतिमुद्रोत्पादेन (दनेन ) मुद्रां प्रतिगतः प्रतिबिम्बोत्पादेन (दनेन) पदं द्रष्टुं शक्यते स
पद्यः =
कर्दमः ।
For Personal & Private Use Only
www.jainelibrary.org