________________
सप्तमाध्यायस्य प्रथमः पादः ॥
[ हलसीरात् ] हलश्च सीरश्च = हलसीरम् तस्मात् ।
[इकण् ] इकण् प्रथमा सि ।
[ हालिक: ] हलं वहति 'अवर्णवर्णस्य' (७|४|६८) अलुक् ।
=
हल - सीरादिकण् ॥ ७ ११६ ॥
हालिकः । अनेन इकण्प्र० इक । 'वृद्धिः स्वरे० ' (७|४|१) वृद्धिः आ ।
[ सैरिकः ] सीरं वहति = सैरिकः । अनेन इकण्प्र० इक । 'वृद्धिः स्वरेष्वा०' (७|४|१) वृद्धिः ऐ । 'अवर्णवर्णस्य' (७|४|६८) अलुक् ॥छ||
[ शकटांत्] शकट पञ्चमी ङसि ।
[ अण् ] अण् प्रथमा सि ।
[ शाकटो गौ: ] शकटं वहति = शाकटो गौः । अनेन अण्प्र० अ । 'वृद्धिः स्वरेष्वादेञ्णिति तद्धिते' (७|४|१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७|४|६८) अलुक् ।
शकटादण् ॥ ७१ ॥७ ॥
ननु च 'तस्येदम्' (६।३।१६०) इति शकटादण्, 'हल-सीरादिकण्' (७/१६) इति हल - सीराभ्यां इकण् सिद्ध एव च, यो हि यद्वहति स तस्य सम्बन्धी भवति, 'हल - सीरा०' 'शकटादण्' इति सूत्रद्वयं किमर्थम् ? सत्यम् 'वहति रथ० ' (७१।२) इत्यत्र रथवदेव तदन्तार्थं अलुबर्थमित्यर्थः उपादानम्, तेनात्रापि द्विगौ द्वैरूप्यं भवति ।
[द्विशकट: ] द्वयोः शकटयोर्वोढा = द्विशकटः ।
[ द्विहल: ] द्वयोर्हलयोर्वोढा
= द्विहलः ।
[[द्विसीर : ] द्वयोः सीरयोर्वोढा = द्विसीरः ।
त्रिष्वपि 'तस्येदम्' (६।३।१६० ) अण्प्र०, न तु हल - सीराभ्यां शैषिकेण इकण्, तेन केवलाभ्यामेकं भणितत्वात्, 'द्विगोरनपत्ये य-स्वराऽऽदेर्लुबद्विः' (६।१।२४) लुप् ।
Jain Education International
[ द्वैशकट: ] द्वे शकटे वहति = द्वैशकट: । 'तस्येदम् ' ( ६ | ३ | १६०) अण्प्र० अ । वृद्धिः ऐ । 'अवर्णेवर्णस्य' (७|४|६८) अलुक् ।
=
३
[ द्वैहलिकः ] द्वे हले वहति द्वैहलिकः । 'हल - सीरादिकण्' (७/१६) इकण्प्र० इक । वृद्धिः ऐ । 'अवर्णेवर्णस्य' (७|४|६८) अलुक् ।
=
[ द्वैसीरिकः ] द्वे सीरे वहति द्वैसीरिकः । 'हल - सीरादिकण्' (७|१|६) इकण्प्र० इक । वृद्धिः ऐ । 'अवर्णेवर्णस्य' (७|४|६८) अलुक् ॥छ ।
विध्यत्यनन्येन ॥ ७॥१॥८ ॥
[विध्यति ] व्य (वि)ध्यतीति व्यधन्, तस्मिन् ।
[ अनन्येन ] न अन्यत् = अनन्यत् तेन । 'अन् स्वरे' ( ३।२।१२९) अन् ।
तमिति वर्त्तते ।
For Personal & Private Use Only
www.jainelibrary.org