SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ २ श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां दुण्डिकायां । धुरो यै ॥ ७|१|३ ॥ [ धुरः ] धुर् पञ्चमी ङसि । [ यैयण् ] यश्च एयण् च = यैयण् । प्रथमा सि । = [ धुर्यः, धौरेयः ] धुर् । धुरं वहति धुर्यः, धौरेयः । अनेन य एयण्प्र० एय । 'वृद्धिः स्वरेष्वादणितितद्धिते' (७|४|१) वृद्धिः औ । प्रथमा सि । 'सो रुः' (२२१७२) स०र० । [ धुरी] धुरं वहति धुरी । मतान्तरे यट्प्र०य । 'अणञेयेकण्०' (२।४।२० ) ङी । 'अस्य ङ्यां लुक्' (२।४।८६) अलुक् । 'व्यञ्जनात् तद्धितस्य' (२|४८८ ) यलुक् । [ धौरेयकः ] धुरं वहति = धौरेयकः । मतान्तरे एयकण्प्र० एयक । 'वृद्धिः स्वरे० ' (७|४|१) वृद्धिः औ । प्रथमा सि । 'सो रु: ' (२।१।७२) स०र० ॥छ । वामाद्यादेरीनः ॥ ७॥१॥४॥ [ वामाद्यादेः ] वाम आदिर्येषां ते = वामादयः । त एव आदिर्यस्य सः = वामाद्यादिस्तस्मात् । [ईन: ] ईन प्रथमा सि । = [वामधुरीणः ] वाम-धुर् मण्ड्यते । वामा धूः 'आत्' (२|४|१८) आप्प्र ० आ । वामधुरं (रां) वहति आलुक् । 'र-षृवर्णान्नो ण०' (२|३|६३) न० ण० । Jain Education International वामधुरा । 'धुरोऽनक्षस्य ' ( ७|३|७७) अत्समासान्तः → अ । वामधुरीणः । अनेन ईनप्र० । 'अवर्णेवर्णस्य' (७|४|६८) = [ सर्वधुरीणः ] सर्वा धूः सर्वधुरा । 'धुरोऽनक्षस्य' (७|३|७७) अत्समासान्तः अ । 'आत्' (२|४|१८) आप्प्र० आ । 'सर्वधुरां वहति = सर्वधुरीणः । अनेन ईनप्र० । 'अवर्णेवर्णस्य' (७|४|६८) आलुक् । 'र- षृवर्णान्नो ण० (२।३।६३) न० ० । अ । 'आत्' (२|४|१८) [ उत्तरधुरीणः ] उत्तरा धूः = उत्तरधुरा । 'धुरोऽनक्षस्य ' ( ७।३।७७) अत्समासान्तः संज्ञा - तद्धितोत्तरपदे' (३।११९८) = आप्प्र० → आ । उत्तरधुरां वहति उत्तरधुरीणः । अनेन ईनप्र० । 'दिगधिकं समासः । 'अवर्णेवर्णस्य' (७|४|६८) आलुक् । 'र- षृवर्णान्नो ण० ' (२।३।६३) न० ० । [दक्षिणधुरीणः ] दक्षिणा धूः दक्षिणधुरा । 'धुरोऽनक्षस्य ' ( ७।३।७७) अत्समासान्तः → अ । 'आत्' (२।४।१८) आप्प्र० → आ । दक्षिणधुरां वहति = दक्षिणधुरीणः । 'दिगधिकं संज्ञा - तद्धितोत्तरपदे' (३|१।९८) समासः । 'अवर्णेवर्णस्य' (७|४|६८) आलुक् । 'र- षृवर्णानो ण० ' (२।३।६३) न० ज० ॥छ । अश्चैकादेः ॥ ७|११५ ॥ [ अश्च ] अ प्रथमा सि । 'सो रुः' [ एकादे: ] एक आदिर्यस्य सः = (२|१।७२ ) स०र० । च प्रथमा सि । एकादिः तस्मात् । [ एकधुरः, एकधुरीणः ] एक-धुर् । एका एकस्य वा धूरेकधुरा । अथवा एका धूरस्मिन् चक्रे तत् = एकधुरम् । 'धुरोऽनक्षस्य ' ( ७।३।७७) अत्समासान्तः → अ । प्रथमे 'आत्' (२|४|१८) आप्प्र० आ । एकधुरां एकधुरं व वहति = एकधुरः, एकधुरीणः । अनेन अ-ईनप्र० । 'अवर्णेवर्णस्य' (७|४|६८) अवर्णस्य लुक् । 'र-षृवर्णान्नो ण०' (२।३।६३) न० ० ॥ छा । For Personal & Private Use Only www.jainelibrary.org
SR No.004232
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 07
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2014
Total Pages450
LanguageHindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy