SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ सप्तमाध्यायस्य प्रथमः पादः ॥ ॥ अहम् ॥ कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यविरचितं श्रीसिद्धहेमचन्द्रशब्दानुशासनम् ॥ श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका ढुण्ढिका ॥ अथ सप्तमाध्यायस्य प्रथमः पादः ॥ यः ॥७॥११॥ [यः] य प्रथमा सि । 'सो रुः' (२।१।७२) स० → र० । अधिकारोऽयम् ॥छ। वहति रथ-युग-प्रासङ्गात् ॥ ७।१२ ॥ [वहति ] वहतीति वहन्, तस्मिन् । [रथयुगप्रासङ्गात् ] रथश्च युगश्च प्रासङ्गश्च = रथयुगप्रासङ्गम, तस्मात् । तमित्यनुवर्तते । [रथ्यः] रथं वहति = रथ्यः । अनेन यप्र० । 'अवर्णेवर्णस्य' (७४/६८) अलुक् । प्रथमा सि । 'सो रुः' (२।११७२) स० → र० । [द्विरथ्यः] द्वौ रथौ वहति = द्विरथ्यः । अनेन यप्र० । 'अवर्णेवर्णस्य' (७४।६८) अलुक् । प्रथमा सि । 'सो रुः' (२।१।७२) स० → र० । 'र: पदान्ते०' (१।३।५३) विसर्गः । [युग्यः ] युगं वहति = युग्यः । अनेन यप्र० । 'अवर्णेवर्णस्य' (७४।६८) अलुक् । प्रथमा सि । 'सो रुः' (२।१।७२) स० → र० । 'रः पदान्ते०' (१।३।५३) विसर्गः । [प्रासङ्ग्यः ] प्रषजं सङ्गे (१७३) षञ् । 'षः सोऽष्ट्यै-ष्ठिव-ष्वष्कः' (२।३।९८) सञ् । प्रसज्यत इति प्रासङ्गः । 'भावा-ऽकोंः ' (५।३।१८) घञ्प्र० → अ । 'घड्युपसर्गस्य बहुलम्' (३।२।८६) प्रस्य दीर्घः । 'क्तेऽनिटश्चजोः क-गौ घिति' (४।१।१११) ज० → ग० । यत्काष्ठं वत्सानां दमनकाले स्कन्धे आरोप्यते तद्वहति यः स प्रासङ्ग्यः । अनेन यप्र० । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । यत्त्वन्यत् प्रसङ्गादागतं प्रासङ्गमिति तद्वहति तत्र न भवत्यनभिधानात् ॥छा। Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004232
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 07
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2014
Total Pages450
LanguageHindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy