________________
सप्तमाध्यायस्य तृतीयः पादः ॥
२४५
[अवन्तिब्रह्मः] अवन्तिषु ब्रह्मा = अवन्तिब्रह्मः । अनेन अट्समासान्तः → अ । 'नोऽपदस्य तद्धिते' (७/४/६१) अन्लुक् ।
[काशिब्रह्मः] काशिषु ब्रह्मा = काशिब्रह्मः । अनेन अट्समासान्तः → अ । 'नोऽपदस्य तद्धिते' (७।४।६१) अन्लुक् । [ देवब्रह्मा नारदः ] देवस्य ब्रह्मा = देवब्रह्मा नारदः । आख्यग्रहणं राष्ट्रवाच्यर्थम् ।।छ।।
कु-महद्भ्यां वा ॥ ७।३।१०८ ॥ [कुमहद्भ्याम् ] कुश्च महांश्च = कुमहान्तौ, ताभ्याम् = कुमहद्भ्याम् । पञ्चमी भ्याम् । [वा] वा प्रथमा सि ।
[कुब्रह्मः, कुब्रह्मा] पापो ब्रह्मा = कुब्रह्मः, कुब्रह्मा । अनेन विकल्पेन अट्समासान्तः → अ । 'नोऽपदस्य तद्धिते' (७।४।६१) अनूलुक् । प्रथमा सि । 'नि दीर्घः' (१२४८५) दीर्घः । 'दीर्घङ्याब्०' (१।४।४५) सिलुक । 'नाम्नो नोऽनह्नः ' (२।१।९१) नलुक् ।
[महाब्रह्मः, महाब्रह्मा] महान् ब्रह्मा = महाब्रह्मः, महाब्रह्मा । अनेन विकल्पेन अट्समासान्तः → अ । 'नोऽपदस्य तद्धिते' (७।४।६१) अन्लुक् । प्रथमा सि । 'नि दीर्घः' (१।४।८५) दीर्घः । 'दीर्घङ्याब' (१।४।४५) सिलुक् । 'नाम्नो नोऽनह्नः' (२।१।९१) नलुक् । पापो महांश्च ब्राह्मण एवमुच्यते ॥छ।।
ग्राम-कौटात् तक्ष्णः ॥ ७।३।१०९ ॥ [ग्रामकौटात् ] ग्रामश्च कौटश्च = ग्रामकोटम, तस्मात् । [तक्ष्णः] तक्षन् पञ्चमी ङसि ।
[ग्रामतक्षः] ग्रामस्य तक्षा = ग्रामतक्षः । अनेन अट्समासान्त: → अ । 'नोऽपदस्य तद्धिते' (७४।६१) अन्लुक् । ग्रामसाधारण इत्यर्थः ।। . [कौटतक्षः] कुटी-शाला तस्यां भवः = कौट: । 'भवे' (६।३।१२३) अण्प्र० → अ । 'वृद्धि: स्वरे०' (७४।१)
वृद्धिः औ । 'अवर्णेवर्णस्य' (७४।६८) ईलोपः । 'कौटश्चासौ तक्षा च = कौटतक्षः । अनेन अट्समासान्तः → अ । 'नोऽपदस्य तद्धिते' (७४।६१) अन्लुक् । स्वापणशालायां यः कर्म करोति स्वतन्त्रो न कस्यचित्प्रतिबद्ध इत्यर्थः ।
[राजतक्षा] राज्ञस्तक्षा = राजतक्षा । प्रथमा सि । 'नि दीर्घः' (१।४।८५) दीर्घः । 'दीर्घयाब०' (१।४।४५) .सिलुक् । 'नाम्नो नोऽनह्नः' (२।१।९१) नलुक् ।
[ग्रामतक्षाणौ ] ग्रामश्च तक्षा च = ग्रामतक्षाणौ । औ । [कौटतक्षा ] कौटस्तक्षास्य । प्रथमा सि । 'नि दीर्घः' (१।४।८५) दीर्घः ॥छ।।
गोष्ठा-ऽतेः शुनः ॥ ७।३।११० ॥ [गोष्ठाऽतेः] गोष्ठश्च अतिश्च = गोष्ठाऽति, तस्मात् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org