SearchBrowseAboutContactDonate
Page Preview
Page 267
Loading...
Download File
Download File
Page Text
________________ + २४४ श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां बुण्डिकायां । [ राजसखः] राज्ञः सखा = राजसखः । अनेन अट्समासान्तः → अ । 'अवर्णेवर्णस्य' (७|४|६८) इवर्णस्य लुक् । [महासखः ] महांश्चासौ सखा च महासखः । अनेन अट्समासान्तः अ 'अवर्णेवर्णस्य' (७|४|६८) इवर्णस्य लुक् । [ अतिसखः] सखायमतिक्रान्तः = अतिसखः । अनेन अट्समासान्तः अ 'अवर्णेवर्णस्य' (७।४।६८) इवर्णस्य लुक् । [अतिसखी] सखायमतिक्रान्ता सा = अतिसखी । अनेन अट्समासान्तः अ 'अवर्णेवर्णस्य' (७४४६८) इवर्णस्य लुक् । 'अणजेयेकण्०' (२।४।२०) ङी । [ पञ्चसखम् ] पञ्चानां सखीनां समाहारः = पञ्चसखम् । अनेन अट्समासान्तः → अ । 'अवर्णेवर्णस्य' (अ४६८) इवर्णस्य लुक् । सि-अम् । [ दशसखम् ] दशानां सखीनां समाहारः इवर्णस्य लुक् सि अम् । - । । = दशसखम्। अनेन अट्समासान्तः अ अवर्णेवर्णस्य' (७|४|६८) [पञ्चसखः ] पञ्चभिः सखिभिः क्रीतः प्लुप्' (६|४|१४१) लुप् । अनेन अट्समासान्तः पञ्चसखः 'मूल्यैः क्रीते' (६|४|१५०) इकण्प्र० । 'अनाम्यद्विः अ [ पञ्चसखी ] पञ्चभिः सखिभिः क्रीता = पञ्चसखी । 'मूल्यैः क्रीते' (६|४|१५० ) इकण्प्र० । 'अनाम्न्यद्विः प्लुप्' (६।४।१४१) लुप् । अनेन अट्समासान्तः अ । [ पञ्चसखप्रिय: ] पञ्च सखायः प्रिया अस्य सः = पञ्चसखप्रियः । अनेन अट्समासान्तः → अ । राजनिति नान्तनिर्देशादनकारान्तान्न भवति [ मद्रराज्ञी ] मद्र-राजन् । 'स्त्रियां नृतोऽस्वस्रादेर्डी : ' (२|४|१) ङी । 'ई- ङौ वा' (२|१|१०९) अलुक् । मद्राणां राज्ञी = मद्रराज्ञी । [विद्याराज्ञी ] विद्यानां राज्ञी = विद्याराज्ञी । [महाराशी] महती चासौ राशी च महाराज्ञी । 'जातीयैकार्थेऽच्चे:' ( ३।२७०) डा० । 'डित्यन्त्यस्वरादेः " (२।१।११४) अत्लुक । सखीशब्दात्त्वटि सत्यसति वा न रूपभेदः । सखीशब्दस्य ईकारन्तस्यापि पञ्चानां सखीनां समाहार इति 'क्लीबे' (२४९७) इति ह्रस्वत्वे इदन्तादेवाद् भवति तथा च पञ्चसखमिति । एवमन्यदपि रूपभेदहेतुकमूह्यम् ॥छ । Jain Education International राष्ट्राख्याद् ब्रह्मणः ॥ ७।३।१०७ ॥ [ राष्ट्राख्यात् ] राष्ट्र 'चक्षिक व्यक्तायां वाचि' (१९१२२) चक्षु । राष्ट्रमाचष्टे = राष्ट्राख्या (ख्य) स्तस्मात् = राष्ट्राख्यात् । 'चक्षो वाचि क्शांग् - ख्यांग्' (४।४।४) ख्यांग्देशः →ख्या 'आतो डोऽह्वा वा म:' ( ५११७६) डप्र० → अ । “डित्यन्त्यस्वरादेः' (२|१|११४) आलुक् । - [ ब्रह्मणः ] ब्रह्मन् पञ्चमी ङसि । [ सुराष्ट्रब्रह्म: ] सुराष्ट्रेषु ब्रह्मा = सुराष्ट्रब्रह्म । अनेन अट्समासान्तः अ। 'नोऽपदस्य तद्धिते' (७४६१) अन्लुक् । यः सुराष्ट्रेषु वसति स सौराष्ट्रको ब्राह्मण इत्यर्थः । For Personal & Private Use Only www.jainelibrary.org
SR No.004232
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 07
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2014
Total Pages450
LanguageHindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy