SearchBrowseAboutContactDonate
Page Preview
Page 266
Loading...
Download File
Download File
Page Text
________________ सप्तमाध्यायस्य तृतीयः पादः ॥ २४३ [अतिगवः] गामतिक्रान्तः = अतिगवः । अनेन अट्समासान्तः → अ । 'अस्वयम्भुवोऽव्' (७४/७०) अव् । [अतिगवी] गामतिक्रान्ता = अतिगवी । अनेन अट्समासान्तः → अ । 'अस्वयम्भुवोऽव्' (७४/७०) अव् । 'अणजेयेकण्' (२।४।२०) ङी । [पञ्चगवम् ] पञ्च च ते गावश्च = पञ्चगवम् । अनेन अट्समासान्तः → अ । 'अस्वयम्भुवोऽव्' (७४/७०) अव् । सि-अम् । [दशगवम् ] दश च ते गावश्च = दशगवम् । अनेन अट्समासान्तः → अ । 'अस्वयम्भुवोऽव्' (७।४/७०) अव् । सि-अम् । [पञ्चगवमयम् ] पञ्चभ्यो गोभ्य आगतं = पञ्चगवमयम् । अनेन अट्समासान्तः → अ । 'अस्वयम्भुवोऽव्' (७।४।७०) अव् । 'नृ-हेतुभ्यो रूप्य-मयटौ वा' (६।३।१५६) मयटप्र० → मय । [पञ्चगवरूप्यम् ] पञ्चभ्यो गोभ्य आगतं = पञ्चगवरूप्यम् । अनेन अट्समासान्तः → अ । 'अस्वयम्भुवोऽव्' (७।४।७०) अव् । 'नृ-हेतुभ्यो०' (६।३।१५६) रूप्यप्र० । [पञ्चगवधनः ] पञ्च गावो धनमस्य = पञ्चगवधनः । अनेन अट्समासान्तः । [दशगवधनः ] दश गावो धनमस्य = दशगवधनः । अनेन अट्समासान्तः → अ । [ दशगवप्रियः] दश गाव: प्रिया अस्य = दशगवप्रियः । अनेन अट्समासान्तः → अ । [चित्रगुः ] चित्रा गौर्यस्य सः = चित्रगुः । 'गोश्चान्ते हुस्वोऽनंशिसमासेयोबहुव्रीहौ' (२।४।९६) हुस्वः । [पञ्चगुः] पञ्चभिर्गोभिः क्रीतः = पञ्चगुः । 'मूल्यैः क्रीते' (६।४।१५०) इकणप्र० । 'अनाम्न्यद्विः प्लुप्' (६।४।१४१) इकण्लुप् । 'गोश्चान्ते हुस्वोऽनंशिसमा०' (२।४।९६) हुस्वः ॥छ।। राजन्-सखेः ॥ ७।३।१०६ ॥ [राजन्सखेः] राजा च सखा च = राजन्सखि, तस्मात् । अलुक इति निवृत्तम् । [ अतिराजः, अतिराजी] अतिक्रान्तो राजानमतिराजः, स्त्री चेत् अतिराजी । अनेन अट्समासान्तः → अ । 'अणजेयेकण-न-स्नञ्-टिताम्' (२।४।२०) ङी । [पञ्चराजी] पञ्चानां राज्ञां समाहारः = पञ्चराजी । अनेन अट्समासान्तः → अ । 'नोऽपदस्य तद्धिते' (७।४।६१) अन्लुक् । 'अणजेयेकण्०' (२।४।२०) ङी । [दशराजी] दशानां राज्ञां समाहारः = दशराजी । अनेन अट्समासान्तः → अ । 'नोऽपदस्य तद्धिते' (७४।६१) अन्लुक् । 'अणजेयेकण्०' (२।४।२०) ङी।। [पञ्चराजः, पञ्चराजी] पञ्चभी राजभिः क्रीतः = पञ्चराजः । 'मूल्यैः क्रीते' (६।४।१५०) इकण्प्र० । 'अनाम्न्यद्विः प्लुप्' (६।४।१४१) लुप् । अनेन अट्समासान्तः → अ । 'नोऽपदस्य तद्धिते' (७।४।६१) अन्लुक् । 'अणजेयेकण्०' (२।४।२०) ङी । [पञ्चराजप्रियः] पञ्च राजानः प्रिया अस्य सः = पञ्चराजप्रियः । अनेन अट्समासान्तः → अ । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004232
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 07
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2014
Total Pages450
LanguageHindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy