SearchBrowseAboutContactDonate
Page Preview
Page 265
Loading...
Download File
Download File
Page Text
________________ २४२ श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां ढुण्डिकायां । "अर्धपूर्वपदो नावः" इति वचनात् अर्धनावी । अनेन अट्समासान्तः -> अ । 'अणजेयेकण-नञ्-स्नञ्-टिताम्' (२।४।२०) ङी । 'अस्य ङयां लुक्' (२।४।८६) अलुक् । [द्विनावम् ] द्वयो वोः समाहारः = द्विनावम् । अनेन अट्समासान्तः → अ । [पञ्चनावम् ] पञ्चानां नावां समाहारः = पञ्चनावम् । अनेन अट्समासान्तः → अ । [द्विनावमयम् ] द्वाभ्यां नौभ्यामागतं = द्विनावमयम् । अनेन अट्समासान्तः → अ । 'नृ-हेतुभ्यो रूप्य-मयटौ वा' (६।३।१५६) मयटप्र० → मय । [पञ्चनावमयम् ] पञ्चभ्यो नौभ्य आगतं = पञ्चनावमयम् । अनेन अट्समासान्तः → अ । 'नृ-हेतुभ्यो०' (६।३।१५६) मयट्प्र० → मय । [द्विनावरूप्यम् ] द्वाभ्यां नौभ्यामागतं = द्विनावरूप्यम् । अनेन अट्समासान्तः → अ । 'नृ-हेतुभ्यो०' (६।३।१५६) . रूप्यप्र० । [पञ्चनावरूप्यम् ] पञ्चभ्यो नौभ्य आगतं = पञ्चनावरूप्यम् । अनेन अट्समासान्तः → अ । 'नृ-हेतुभ्यो०' (६।३।१५६) रूप्यप्र० । [द्विनावप्रियः ] द्वौ(द्वे) नावौ प्रियौ अस्य = द्विनावप्रियः । अनेन अट्समासान्तः → अ। [द्विनावधनः ] द्वौ(द्वे) नावौ धनमस्य = द्विनावधनः । अनेन अट्समासान्तः → अ। [द्विनौः ] द्वाभ्यां नौभ्यां क्रीतः = द्विनौः । 'मूल्यैः क्रीते' (६।४।१५०) इकण्प्र० । 'अनाम्न्यद्विः प्लुप्' (६।४।१४१) लुप् । सि । [पञ्चनौः ] पञ्चभिः नौभिः क्रीतः = पञ्चनौः । 'मूल्यैः क्रीते' (६।४।१५०) इकण्प्र० → इक । 'अनाम्न्यद्विः प्लुप्' (६।४।१४१) लुप् । सि । [द्विनौः ] द्वयो!ः = द्विनौः ।। [राजनौः ] राज्ञो नौः = राजनौः । [परमनौः] परमश्चासौ नौश्च = परमनौः । टकारो ड्यर्थ:[अर्धनावम्, अर्धनावी] अर्धनावीत्यत्र 'द्विगो: समाहारात्' (२।४।२२) ङी ॥छ।। गोस्तत्पुरुषात् ॥ ७।३।१०५ ॥ [गोस्तत्पुरुषात् ] गो पञ्चमी ङसि । स चासौ पुरुषश्च = तत्पुरुषस्तस्मात् । [राजगवः, राजगवी] राज्ञो गौः = राजगवः, राजगवी । अनेन अट्समासान्तः → अ । 'अस्वयम्भुवोऽव्' (७४/७०) अव् । द्वितीये 'अणजेयेकण्' (२।४।२०) ङी । [पुङ्गवः] पुंसो गौः = पुङ्गवः । अट्समासान्तः → अ । 'अस्वयम्भुवोऽव्' (७४/७०) अव् । [स्त्रीगवी ] स्त्रिया गौः = स्त्रीगवी । अनेन अट्समासान्तः → अ । 'अस्वयम्भुवोऽव्' (७४/७०) अव् । 'अणजेयेकण' (२।४।२०) ङी । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004232
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 07
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2014
Total Pages450
LanguageHindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy