________________
सप्तमाध्यायस्य तृतीयः पादः ।।
२४१
खार्या वा ॥ ७३।१०२ ॥ [खार्याः ] खारी पञ्चमी ङसि । [वा] वा प्रथमा सि । पृथग्योगाद् द्वि-त्रेरिति निवृत्तम् ।
[द्विखारम्, द्विखारि] द्वयोः खार्योः समाहारः = द्विखारम् । अनेन अट्समासान्तः → अ । 'अवर्णेवर्णस्य' (७४/६८) ईलुक् । सि । पक्षे-'क्लीबे' (२।४।९७) हुस्वः । द्विखारि स्थिते तु अन्यस्तु सर्वो नपुंसक इति क्लीबत्वमेव ।
[पञ्चखारम, पञ्चखारि] पञ्चानां खारीणां समाहारः = पञ्चखारम् । अनेन अट्समासान्तः → अ । 'अवर्णवर्णस्य' (७।४।६८) ईलुक् । एवम्-पञ्चखारि । 'क्लीबे' (२।४।९७) हुस्वः ।
[द्विखारमयम्, द्विखारीमयम् ] द्वाभ्यां खारीभ्यामागतं = द्विखारमयम् । अनेन अट्समासान्तः → अ । 'नृ-हेतुभ्यो रूप्य-मयटौ वा' (६।३।१५६) मयट्प्र० → मय ।
[पञ्चखाररूप्यम्, पञ्चखारीरूप्यम्] पञ्चभ्यः खारीभ्यः आगतं = पञ्चखाररूप्यम् । अनेन अट्समासान्तः → अ । 'नृ-हेतुभ्यो०' (६।३।१५६) रूप्यप्र० ।
[द्विखारप्रियः, द्विखारीप्रियः] द्वौ खायौँ प्रियेऽस्य = द्विखारप्रियः । अनेन अट्समासान्तः → अ । 'अवर्णेवर्णस्य' (७४/६८) ईलुक् ।
[पञ्चखारधनः, पञ्चखारीधनः] पञ्च खार्यो धनमस्य = पञ्चखारधनः । अनेन अट्समासान्तः → अ । 'अवर्णेवर्णस्य' (७४/६८) ईलुक् ।
[उपखारि] खार्याः समीपम् = उपखारि । 'क्लीबे' (२।४।९७) हुस्वः । [अधिखारि ] खार्यां निधेहि = अधिखारि । 'क्लीबे' (२।४।९७) हुस्वः ।
[द्विखारः, द्विखारम्] द्वाभ्यां खारीभ्यां क्रीतः । 'मूल्यैः क्रीते' (६।४।१५०) इकणप्र० । 'अनाम्न्यद्विः प्लुप्' (६।४।१४१) लुप् । 'ङ्यादेर्गौणस्या०' (२।४।९५) ङीनिवृत्तिः । एवम्-द्विखारम् ।
[द्विखारी] द्वे खा? मानमस्याः सा = द्विखारी । 'मात्रट्' (७।१।१४५) मात्रटप्र० । 'द्विगोः संशये च' (७।१।१४४) लुप् । 'परिमाणात् तद्धितलु०' (२।४।२३) ङी । 'अस्य यां लुक् (२।४।८६) अलुक् ॥छ।।
वाऽर्धाच्च ॥७३।१०३ ॥ [वा] वा प्रथमा सि । [अर्धात् ] अर्ध पञ्चमी ङसि । [च] च प्रथमा सि ।
[अर्धखारम्, अर्धखारी] अर्धं खार्याः = अर्धखारम् । अनेन अट्समासान्तः → अ । 'अवर्णेवर्णस्य' (७।४।६८) ईलुक् । सि-अम् । एवम्-अर्धखारी ॥छा।
नावः ॥ ७।३।१०४ ॥ [नावः] नौ पञ्चमी ङसि ।
[अर्धनावम्, अर्धनावी] अर्ध नावः = अर्धनावम् । अनेन अट्समासान्तः → अ ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org