________________
२४०
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां ढुण्डिकायां ।
[व्यायुःप्रियः] द्वे आयुषी प्रियेऽस्य = व्यायुःप्रियः । [त्र्यायुःप्रियः ] त्रीण्यायूंषि प्रियाण्यस्य = त्र्यायुःप्रियः । उत्तरपदद्विगुरयम् ॥छ।
वाऽञ्जलेरलुकः ॥ ७।३।१०१ ॥ [वा] वा प्रथमा सि । [अञ्जलेः] अञ्जलि पञ्चमी ङसि । [अलुकः ] न विद्यते लुक् यस्मात् सः = अलुक्, तस्मात् ।
[द्वयञ्जलम्, द्वयञ्जलि] द्वयोरञ्जल्योः समाहारः = व्यञ्जलम् । अनेन अट्समासान्तः → अ । 'अवर्णेवर्णस्य' (७।४।६८) इलुक् । सि-अम् । एवम्-व्यञ्जलि । सि । 'अनतो लुप्' (१।४।५९) लुप् ।
[त्र्यञ्जलम्, त्र्यञ्जलि] त्रयाणामञ्जलीनां समाहारः = यजलम् । अनेन अट्समासान्तः → अ । 'अवर्णेवर्णस्य' . (७।४।६८) इलुक् । सि-अम् । एवम्-व्यञ्जलि । सि । 'अनतो लुप्' (१।४।५९) लुप् ।
[द्वयञ्जलमयम्, व्यञ्जलिमयम् ] द्वाभ्यामञ्जलिभ्यामागतं = व्यञ्जलमयम् । अनेन अट्समासान्तः → अ । 'नृहेतुभ्यो रूप्य-मयटौ वा' (६।३।१५६) मयट्प्र० → मय । सि-अम् । एवम्-व्यञ्जलिमयम् ।
[त्र्यञ्जलमयम्, त्र्यञ्जलिमयम् ] त्रिभ्योऽञ्जलिभ्य आगतं = त्र्यञ्जलमयम् । अनेन अट्समासान्त: → अ । 'नृ-हेतुभ्यो रूप्य-मयटौ वा' (६।३।१५६) मयट्प्र० → मय । एवम्-त्र्यञ्जलिमयम् ।
[व्यञ्जलरूप्यम्, व्यञ्जलिरूप्यम् ] द्वाभ्यामञ्जलिभ्यामागतं = व्यञ्जलरूप्यम् । अनेन अट्समासान्तः → अ। 'नृ-हेतुभ्यो रूप्य-मयटौ वा' (६।३।१५६) रूप्यप्र० । सि-अम् । एवम्-व्यञ्जलिरूप्यम् ।
[त्र्यञ्जलरूप्यम्, व्यञ्जलिरूप्यम् ] त्रिभ्यः अञ्जलिभ्यः आगतं = व्यञ्जलरूप्यम् । अनेन अट्समासान्तः → अ । 'नृ-हेतुभ्यो०' (६।३।१५६) रूप्यप्र० । सि-अम् । एवम्-त्र्यञ्जलिरूप्यम् ।
[व्यञ्जलप्रियः] द्वावजली प्रियौ यस्य = व्यञ्जलप्रियः । अनेन अट्समासान्तः → अ । 'अवर्णेवर्णस्य' (७।४।६८) इलुक् ।
[त्र्यञ्जलप्रियः] त्रयोऽञ्जलयः प्रिया अस्य = व्यञ्जलिप्रियः । अनेन अट्समासान्तः → अ । 'अवर्णेवर्णस्य' (७४/६८) इलुक् ।
[द्वयञ्जलिर्घटः ] द्वाभ्यामञ्जलिभ्यां क्रीतः = व्यञ्जलिर्घटः । 'मूल्यैः क्रीते' (६।४।१५०) इकण्प्र० । 'अनाम्यद्विः प्लुप्' (६।४।१४१) इकण्लुप् ।
[त्र्यञ्जलिर्घटः ] त्रिभिरञ्जलिभिः क्रीतः = व्यञ्जलिर्घटः । 'मूल्यैः क्रीते' (६।४।१५०) इकण्प्र० । 'अनाम्न्यद्विः प्लुप्' (६।४।१४१) इकण्लुप् ।
[द्वयञ्जलिः] द्वयोरञ्जलिः = व्यञ्जलिः । प्रथमा सि । 'सो रुः' (२।१७२) स० २र० । [व्यञ्जलिः] त्रयाणामञ्जलिः = व्यञ्जलिः । प्रथमा सि । 'सो रुः' (२।१।७२) स० → र० । [द्वयञ्जलिकः ] द्वावजली अस्य = व्यञ्जलिकः । 'शेषाद् वा' (७।३।१७५) कच्० → क। [त्र्यञ्जलिकः] त्रयोऽञ्जलयो अस्य = व्यञ्जलिकः । 'शेषाद् वा' (७।३।१७५) कच्० → क ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org