SearchBrowseAboutContactDonate
Page Preview
Page 262
Loading...
Download File
Download File
Page Text
________________ सप्तमाध्यायस्य तृतीयः पादः ॥ २३९ [पञ्चतक्षी, पञ्चतक्षम् ] पञ्च तक्षाणः समाहृताः = पञ्चतक्षी । अनेन अट्समासान्तः → अ । 'नोऽपदस्य तद्धिते' (७।४।६१) अन्लुक् । “द्विगुरन्नाबन्तान्तो वा" इति स्त्रीत्वम् । 'द्विगोः समाहारात्' (२।४।२२) ङी । एवम्-पञ्चतक्षम् । [दशोक्षी, दशोक्षम् ] दशोक्षाण: समाहृताः = दशोक्षी । अनेन अट्समासान्तः → अ । 'नोऽपदस्य तद्धिते' (७।४।६१) अन्लुक् । 'द्विगो: समाहारात्' (२।४।२२) ङी । एवम्-दशोक्षम् । [शतराजी, शतराजम् ] शतस्य राज्ञां समाहृताः = शतराजी । अनेन अट्समासान्तः → अ । 'नोऽपदस्य तद्धिते' (७४।६१) अन्लुक् । 'द्विगो: समाहारात्' (२।४।२२) ङी । एवम्-शतराजम् । [व्यहः ] द्वयोरह्नोः समाहारः = व्यहः । अनेन अट्समासान्तः → अ । 'नोऽपदस्य०' (७।४।६१) अन्लुक् । [त्र्यहः ] त्रयाणामह्नां समाहारः = व्यहः । अनेन अट्समासान्तः → अ । 'नोऽपदस्य०' (७४/६१) अन्लुक् । [संतक्षाणः] समाहृतास्तक्षाणः = संतक्षाणः । जस् । 'नि दीर्घः' (१४८५) दीर्घः । 'प्रात्यव-परि-निरादयो गतक्रान्त-क्रुष्ट-ग्लान-क्रान्ताद्यर्थाः प्रथमाद्यन्तैः' (३।१४७) इत्यादिना समासः । [समह्नाः] समाहृतान्यहानि = समहाः । 'सर्वां-ऽश-संख्या-ऽव्ययात्' (७।३।११८) अट्समासान्तः → अ - "अह"च । जस् । - [द्वयुक्षा] द्वाभ्यामुक्षभ्यां क्रीतः = व्युक्षा । 'मूल्यैः क्रीते' (६।४।१५०) इकण्प्र० → इक । 'अनाम्न्यद्विः प्लुप्' (६।४।१४१) लुप् । प्रथमा सि । 'नि दीर्घः' (१।४।८५) दीर्घः । __ [युक्षा] त्रिभिरुक्षभिः क्रीतः = त्र्युक्षा । 'मूल्यैः क्रीते' (६।४।१५०) इकण्प्र० → इक । 'अनाम्न्यद्विः प्लुप्' (६।४।१४१) लुप् । प्रथमा सि । 'नि दीर्घः' (१।४।८५) दीर्घः । - [व्यह्नः] द्वयोरह्नोर्भवः = व्यह्नः । 'सर्वां-ऽश-संख्या-ऽव्ययात्' (७।३।११८) अट्समासान्तः → अ - . "अह्न देशश्च । [त्र्यह्नः] त्रिषु अहःसु भवः = त्र्यह्नः । 'सर्वां-ऽश-संख्या-ऽव्ययात्' (७।३।११८) अट्समासान्तः → अ"अह"देशश्च । अन्नन्तत्वेनैव सिद्धेऽह्न इदमइविधानं समाहारे 'सर्वां-ऽश-संख्या-ऽव्ययात्' (७३।११८) इति परस्याप्यटो बाधनार्थम्, तस्मिन् हि सति अनादेशः स्यात् ॥छा। द्वि-त्रेरायुषः ॥ ७।३।१०० ॥ [द्वित्रेः] द्विश्च त्रिश्च = तत्, तस्मात् । [आयुषः] आयुस् पञ्चमी ङसि । [व्यायुषम् ] द्वयोरायुषोः समाहारः = व्यायुषम् । अनेन अट्समासान्तः → अ । 'नाम्यन्तस्था-कवर्गात् पदान्तः कृतस्य सः शिड्-नान्तरेऽपि' (२।३।१५) षत्वम् । [व्यायुषम् ] त्रयाणामायुषां समाहारः = व्यायुषम् । अनेन अट्समासान्तः → अ । 'नाम्यन्तस्था-कवर्गात्०' (२।३।१५) षत्वम् । [चतुरायुः] चतुर्णामायुषां समाहारः = चतुरायुः । है हैमलिङ्गानुशासने स्त्रीलिङ्गप्रकरणे पञ्चमश्लोकम् । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004232
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 07
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2014
Total Pages450
LanguageHindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy