________________
२३८
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां ढुण्ढिकायां ।
[ऋग्यजुः] ऋग्यजुर्यस्य सः = ऋग्यजुः । प्रथमा सि । 'दीर्घझ्याब्०' (१।४।४५) सिलुक् ।
[धेन्वनड्वान्] धेनोरनड्वान् = धेन्वनड्वान् । प्रथमा सि । 'अनडुहः सौ' (१।४।७२) नोऽन्तः । 'वाः शेषे' (१।४।८२) वा । 'दीर्घङ्याब्०' (१।४।४५) सिलुक् । 'पदस्य' (२।१८९) हलुक् ॥छ।।
चवर्ग-द-ष-हः समाहारे ॥ ७।३।९८ ॥ [चवर्गदषहः ] चवर्गश्च दश्च षश्च ह च = चवर्गदषह, तस्मात् । [समाहारे] समाहार सप्तमी ङि । [वाक्त्वचम् ] वाक् च त्वक् च = वाक्त्वचम् । अनेन अत्समासान्त: → अ ।
[वाक्समुच्छम् ] सम् 'उछत् विवासे' (१३४) उच्छ् । समुच्छतीति समुच्छ् । 'मन्-वन्-क्वनिप्-विच् क्वचित्' । (५।१।१४७) विच्प्र० । 'अप्रयोगीत्' (१२११३७) विच्लोपः । वाक् च समुच्छ च = वाक्समुच्छम् । अनेन अत्समासान्तः → अ।
[श्रीस्रजम्] श्रीश्च स्रज्(क्) च = श्रीस्रजम् । अनेन अत्समासान्तः → अ । [ समिदृषदम् ] समिच्च दृषच्च = समिदृषदम् । अनेन अत्समासान्त: → अ । [संपद्विपदम् ] संपच्च विपद् च = संपद्विपदम् । अनेन अत्समासान्त: → अ । [वाक्त्विषम् ] वाक् च त्विष्(ट्) च = वाक्त्विषम् । अनेन अत्समासान्त: → अ । [वाग्विप्रुषम् ] वाक् च विपुष्(ट्) च = वाग्विप्रुषम् । अनेन अत्समासान्त: → अ । [छत्रोपानहम् ] छत्रं च उपानह च = छत्रोपानहम् । अनेन अत्समासान्तः → अ । [गोगोदुहम् ] गौश्च गोदुह् च = गोगोदुहम् । अनेन अत्समासान्तः → अ ।
[छत्रोपानहिनी] छत्रं च उपानह् च । अनेन अत्समासान्तः → अ । छत्रोपानहोऽस्यास्ति = छत्रोपानहिनीति । 'प्राणिस्थादस्वाङ्गाद्' (७।२।६०) इन्प्र० । 'अवर्णेवर्णस्य' (७४/६८) अलुक् । 'स्त्रियां नृतोऽस्वस्रादे8:' (२।४।१) ङी ।
[दृषत्समित् ] दृषच्च समिच्च । प्रथमा सि । 'दीर्घझ्याब्०' (१।४।४५) सिलुक् । 'धुटस्तृतीयः' (२।१।७६) ध० → द० । 'विरामे वा' (११३५१) द० → त० ।
[ यकृन्मेदः ] यकृच्च मेदश्च = यकृन्मेदः । [प्रावृट्शरद्भ्याम् ] प्रावृट् च शरच्च = प्रावृट्शरदौ, ताभ्याम् । [अश्वानडुद्भ्याम् ] अश्वश्च अनड्वांश्च = अश्वानडुहौ, ताभ्याम् = अश्वानडुद्भ्याम् । पञ्चमी भ्याम् ।
[पञ्चवाक् ] पञ्च वाच: समाहृताः = पञ्चवाक् । प्रथमा सि । 'दीर्घङ्याब्०' (१।४।४५) सिलुक् । संख्यापूर्वो द्विगुरयम् ॥छ।।
द्विगोरन्नोऽट् ॥ ७।३।१९ ॥ [द्विगोः] द्विगु पञ्चमी ङसि ।
[अन्नह्नः] अन् च अहश्च = अन्नहन्, तस्मात् । 'अनोऽस्य' (२१२१०८) अलुक् । [अट्] अट् प्रथमा सि ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org