________________
सप्तमाध्यायस्य तृतीयः पादः ॥
२३७
ऋक्सामय॑जुष-धेन्वनडुह-वाङ्मनसा-ऽहोरात्र-रात्रिंदिव-नक्तंदिवा-ऽहर्दिवोर्वष्ठीव-पदष्ठीवा-ऽक्षिभ्रुव
दारगवम् ॥७।३।९७ ॥ [ऋक्सामय॑जुषधेन्वनडुहवाङ्मनसाऽहोरात्ररात्रिंदिवनक्तंदिवाऽहर्दिवोर्वष्ठीवपदष्ठीवाऽक्षिध्रुवदारगवम्] ऋक्सामश्च ऋग्यजुषश्च धेन्वनडुहश्च वाङ्मनसश्च अहोरात्रश्च रात्रिंदिवश्च नक्तंदिवश्च अहदिवश्च उर्वष्ठीवश्च पदष्ठीवश्च अक्षिभ्रुवश्च दारगवश्च = ऋक्सामय॑जुषधेन्वनडुहवाङ्मनसाऽहोरात्ररात्रिंदिवनक्तंदिवाऽहर्दिवोर्वष्ठीवपदष्ठीवाऽक्षिध्रुवदारगवम् ।
[ऋक्सामे] ऋक् च साम च = ऋक्सामे । 'न दधिपयआदिः' (३।१।१४५) - संख्याने (३।१।१४६) इत्यनेन समाहारनिषेधः । अनेन अत्समासान्तः → अ । 'नोऽपदस्य तद्धिते' (७।४।६१) अन्लुक् । 'औरीः' (१।४।५६) ई ।
[ऋग्यजुषमधीयानान् ] ऋक् च यजुश्च = ऋग्यजुषम् । अनेन अत्समासान्तः । अम् । 'इंफू अध्ययने' (११०४) इ, अधिपूर्व० । अधीयते । 'शत्रानशावेष्यति तु सस्यौ' (५।२।२०) आनशप्र० + आन । 'धातोरिवर्णोवर्णस्येयुव' (२।१।५०) इय् । द्वितीया शस् ।
[धेन्वनडुहौ ] धेनुश्च अनड्वांश्च = धेन्वनडुहौ । अनेन अत्समासान्तः । औ । [धेन्वनडुहाः ] धेनवश्च अनडुहश्च = धेन्वनडुहः । अनेन अत्समासान्तः → अ । जस् । असमाहारार्थं धेन्वनडुहग्रहणम् । [वाङ्मनसे] वाक् च मनश्च = वाङ्मनसे । अनेन अत्समासान्तः → अ । 'औरी:' (१।४।५६) ई । [अहोरात्रः] अहश्च रात्रिश्च = अहोरात्रः । अनेन अत्समासान्तः → अ । 'अवर्णेवर्णस्य' (७।४।६८) इलुक् ।
[रात्रिंदिवम् ] रात्रिश्च दिवा च = रात्रिंदिवम् । अनेन अत्समासान्तः → अ-मागमश्च । 'अवर्णेवर्णस्य' (७।४।६८) आलुक् । अम् ।
[रात्रिंदिवानि पश्यति ] रात्रयश्च दिवा च = रात्रिंदिवानि पश्यति । अनेन अत्समासान्तः → अ-मागमश्च । द्वितीया शस् । 'नपुंसकस्य शिः' (१।४।५५) शस्० → शि० → इ० । 'स्वराच्छौ' (१४ा६५) नोऽन्तः । 'नि दीर्घः' (१।४।८५) दीर्घः ।
[नक्तंदिवम् ] नक्तं च दिवा च = नक्तंदिवम् । अनेन अत्समासान्तः → अ । अत्रापि मोऽन्तः । [अहर्दिवम्] अहश्च दिवा च = अहर्दिवम् । अनेन अत्समासान्तः → अ। 'अवर्णेवर्णस्य' (७।४।६८) आलुक् । पर्याययोरपि वीप्सायां द्वन्द्वो निपातनात अहरहरित्यर्थः । [ ऊर्वष्ठीवम ] ऊरू च अष्ठीवन्तौ च = ऊर्वष्ठीवम । अनेनं अतसमासान्तः , अ । निपातनादन्त्यस्वरादिलोपः ।
[पदष्ठीवम् ] पादौ च अष्ठीवन्तौ च = पदष्ठीवम् । अनेन अत्समासान्तः → अ । निपातनादन्त्यस्वरादिलोप:पद्भावश्च ।
[अक्षिभ्रुवम् ] अक्षिणी च भ्रुवौ च = अक्षिध्रुवम् । अनेन अत्समासान्तः → अ । उव् ।
[दारगवम् ] दाराश्च गावश्च = दारगवम् । अनेन अत्समासान्तः → अ । अत्र निपातनात् ध्रुव उवादेशोऽक्षिदारशब्दयोश्च पूर्वनिपातः ।
[ऋक्सामा मुग्धः ] ऋक् साम यस्य सः = ऋक्सामा । प्रथमा सि । 'नि दीर्घः' (१।४।८५) दीर्घः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org