SearchBrowseAboutContactDonate
Page Preview
Page 259
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां ढुण्ढिकायां । [कर्मधारयात् ] कर्मधारय पञ्चमी ङसि । [जातोक्षः ] जातश्चासावुक्षा च = जातोक्षः । अनेन अत्समासान्त: → अ । 'नोऽपदस्य तद्धिते' (७।४।६१) अन्लुक् । [महोक्षः] महांश्चासौ उक्षा च = महोक्षः । अनेन अत्समासान्तः → अ । 'जातीयैकार्थेऽच्वेः' (३।२७०) डा० । । 'डित्यन्त्यस्वरादेः' (२।१।११४) अत्लुक् । 'नोऽपदस्य०' (७४/६१) अन्लुक् । [वृद्धोक्षः] वृद्धश्चासावुक्षा च = वृद्धोक्षः । अनेन अत्समासान्तः → अ । 'नोऽपदस्य०' (७।४।६१) अन्लुक् । 'अवर्णस्येवर्णादिनैदोदरल्' (१।२।६) ओ । [ परमोक्षा] परमश्चासावुक्षा च = परमोक्षा । प्रथमा सि । 'नि दीर्घः' (१।४।८५) दीर्घः । 'दीर्घङ्याब्०' (१।४।४५) सिलुक् । 'नाम्नो नोऽनह्नः' (२।१।९१) नलुक् । [उत्तमोक्षा ] उत्तमश्चासावुक्षा च = उत्तमोक्षा । प्रथमा सि । 'नि दीर्घः' (१।४।८५) दीर्घः । 'दीर्घङ्याब्०' (१।४।४५) सिलुक् । 'नाम्नो नोऽनह्नः' (२।१।९१) नलुक् । [महाश्मश्रु] महच्च तत् श्मश्रु च = महश्मश्रु | सि । 'अनतो लुप्' (१।४।५९) लुप् । [जातोक्षा] जातस्योक्षा = जातोक्षा । प्रथमा सि । 'नि दीर्घः' (१।४।८५) दीर्घः । 'दीर्घङ्याब्०' (१।४।४५) . . सिलुक् । 'नाम्नो नोऽननः' (२।१।९१) नलुक् । [महदुक्षा] महत् उक्षा = महदुक्षा । प्रथमा सि । 'नि दीर्घः' (१।४।८५) दीर्घः । 'दीर्घयाब' (१।४।४५) सिलुक् । 'नाम्नो नोऽननः' (२।१।९१) नलुक् । [वृद्धोक्षा] वृद्धस्य उक्षा = वृद्धोक्षा । प्रथमा सि । 'नि दीर्घः' (१।४।८५) दीर्घः । 'दीर्घयाब्०' (१।४।४५) सिलुक् । 'नाम्नो नोऽनह्नः' (२।१।९१) नलुक् छ।। स्त्रियाः पुंसो द्वन्द्वाच्च ॥ ७।३।९६ ॥ [स्त्रियाः ] स्त्री पञ्चमी ङसि । 'स्त्रियाः' (२।१।५४) इय् । [पुंसः ] पुम्स् पञ्चमी ङसि । 'शिड्-हेऽनुस्वारः' (१।३।४०) अनुस्वारः । [द्वन्द्वात्] द्वन्द्व पञ्चमी ङसि । [च] च प्रथमा सि । [स्त्रीपुंसम्, स्त्रीपुंसौ, स्त्रीपुंसाः ] स्त्री च पुमांश्च = स्त्रीपुंसम् । स्त्रियौ च पुमांसौ च = स्त्रीपुंसौ । स्त्रियश्च पुमांसश्च = स्त्रीपुंसाः । अनेन अत्समासान्तः → अ । सि-औ-जस् । [स्त्रीपुंसः शिखण्डी] स्त्री चासौ पुमांश्च = स्त्रीपुंसः । अनेन अत्समासान्तः → अ । शिखण्डी-गाङ्गेयघाती महाभारते इत्युक्तम् । अग्रेतने "स्त्रीपुंसं विद्धि राक्षसम्" इत्यत्र साधना पूर्ववत् । अम् । [स्त्रीपुमान् ] स्त्रियाः पुमान् । 'पुंसोः पुमन्स्' (१।४।७३) पुमन्स् । 'न्स्महतोः' (१।४।८६) दीर्घः । 'दीर्घयाब्०' (१।४।४५) सिलुक् । 'पदस्य' (२।११८९) सलुक् ॥छा। Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004232
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 07
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2014
Total Pages450
LanguageHindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy