________________
२३४
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां इण्डिकायां ।
[उपपौर्णमासम्, उपपौर्णमासि] पूर्णो माश्चन्द्रोऽस्यां सा = पौर्णमासी । 'पूर्णमासोऽण्' (७।२।५५) अण्प्र० → अ । 'वृद्धिः स्वरेष्वादेणिति तद्धिते' (७।४।१) वृद्धिः औ । 'अणजेयेकण्-नञ्०' (।४।२०) ङी । पौर्णमास्या उपसमीपम् = उपपौर्णमासम्, उपपौर्णमासि ।
[उपाग्रहायणम्, उपाग्रहायणि] अग्रं हायनस्य = अग्रहायन्:(णः) । अग्रहायने(णे)न मृगशिरसा युक्ता पू(पौर्णमासी। 'चन्द्रयुक्तात् काले०' (६।२६) अण्प्र० → अ। 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः आ। 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । 'अणजेयेकण्०' (२।४।२०) ङी । आग्रहायण्या उप-समीपम् = उपाग्रहायणम्, उपाग्रहायणि । शेषं पूर्ववत् ।
अपञ्चमवर्य - [ उपस्नुचम्, उपस्नुक्] सुचः समीपम् = उपचुचम्, उपनुक् ।। [अधिस्रजम्, अधिस्त्रक्] अधि स्रजि निधेहि = अधिस्रजम्, अधिस्रक् ।
[उपैडविडम्, उपैडविड्] इडविडोऽपत्यं स्री । 'राष्ट्र-क्षत्रियात् सरूपाद् राजाऽपत्ये दिर' (६।१।११४) अप्र० । 'द्रेरणोऽप्राच्य-भर्गादेः' (६।१।१२३) स्रियां लुप् । इडविडः समीपम् = उपैडविडम् । अनेन अत्समासान्ते सति 'जातिश्च णि-तद्धितय-स्वरे' (३।२।५१) इत्यनेन पुंवद्भावे अबो लुप निवृत्तिः, ततो वर्गान्तत्वाभावान्न भवति पुंवद्भाव एव चास्य फलम् । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः ऐ । एवम्-उपैडविट् । अत्र न कश्चित् प्रत्ययः । प्रथमा सि । 'दीर्घङ्याब्०' (१।४।४५) सिलुक् ।
[प्रतिमरुतम्, प्रतिमरुत् ] मरुतं प्रति = प्रतिमरुतम् । अनेन अत्समासान्तः → अ । 'लक्षणेनाऽभि-प्रत्याभिमुख्ये' (३२११३३) इत्यादिना समासः । सि । 'अमव्ययीभाव०' (३।२।२) अम् ।
[उपदृषदम्, उपदृषद् ] दृषदः समीपम् = उपदृषदम् । अनेन अत्समासान्तः → अ । सि । 'अमव्ययी०' (३।२।२) अम् ।
[उपसमिधम्, उपसमित्] समिधः समीपम् = उपसमिधम् । अनेन अत्समासान्तः → अ । सि । 'अमव्ययीभावः' (३।२।२) अम् ।
[उपककुभम्, उपककुब्] ककुभः समीपम् = उपककुभम् । अनेन अत्समासान्तः → अ । सि । 'अमव्ययीभावस्याऽतोऽपञ्चम्याः ' (३।२।२) अम् ॥छ।
संख्याया नदी-गोदावरीभ्याम् ॥ ७।३९१ ॥
[संख्यायाः] संख्या पञ्चमी ङसि । [नदीगोदावरीभ्याम् ] नदी च गोदावरी च = नदीगोदावयों, ताभ्यां = नदीगोदावरीभ्याम् । पञ्चमी भ्याम् ।
[पञ्चनदम् ] पञ्च नद्यः समाहृताः = पञ्चनदम् । 'संख्या समाहारे' (३।१।२८) इत्यनेन समासः । अनेन अत्समासान्तः → अ । 'अवर्णेवर्णस्य' (७४।६८) ईलुक् ।
[सप्तनदम् ] सप्त नद्यः समाहृताः = सप्तनदम् । अनेन अत्समासान्तः → अ । 'अवर्णेवर्णस्य' (७४।६८) ईलुक् । 'संख्या समाहारे' (३।१।२८) इत्यनेन समासः । .
[द्विगोदावरम् ] गोद 'वृकुट् वरणे' (१२९४) वृ । गोदा आवृणोतीति गोदावरी । 'लिहादिभ्यः' (१।१।५०) अच्प्र० → अ । 'गौरादिभ्यो मुख्यान्डी:' (२।४।१९) ङी । द्वे गोदावयौं समाहृते = द्विगोदावरम् । अनेन अत्समासान्तः → अ । शेषं पूर्ववत् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org