________________
सप्तमाध्यायस्य तृतीयः पादः ॥
२३३
अनः ॥७॥३८८ ॥ [अनः] अन् पञ्चमी ङसि । [उपराजम्] राज्ञः समीपम् = उपराजम् । अनेन अत्समासान्तः → अ । 'नोऽपदस्य तद्धिते' (७४।६१) अन्लुक् । [ उपतक्षम् ] तक्ष्णः समीपम् = उपतक्षम् । अनेन अत्समासान्तः → अ । 'नोऽपदस्य०' (७।४।६१) अन्लुक् । [अध्यात्मम् ] आत्मन्यधि = अध्यात्मम् । अनेन अत्समासान्तः → अ । 'नोऽपदस्य०' (७।४।६१) अन्लुक् ।
[प्रत्यात्मम् ] आत्मानं प्रति = प्रत्यात्मम् । अनेन अत्समासान्तः → अ । 'नोऽपदस्य०' (७४।६१) अन्लुक् । 'लक्षणेनाऽभि-प्रत्याभिमुख्ये' (३।१।३३) इत्यादिना समासः । सि । 'अमव्ययीभावस्याऽतोऽपञ्चम्याः' (३।२।२) अम् ॥छ।।
नपुंसकाद् वा ॥ ७॥३८९ ॥
[नपुंसकात् ] नपुंसक पञ्चमी ङसि । [वा] धा प्रथमा सि ।
- [उपचर्म, उपचर्मम् ] चर्मणः समीपम् = उपचर्म । प्रथमा सि । 'अनतो लुप्' (३।२।६) सिलुप् । एवम्-उपचर्मम् ।
अनेन अत्समासान्तः → अ । 'नोऽपदस्य तद्धिते' (७४।६१) अन्लुक् । सि । 'अमव्ययीभाव०' (३।२।२) अम् । .. [प्रतिकर्म, प्रतिकर्मम् ] कर्मणः प्रति = प्रतिकर्म । प्रथमा सि । 'अनतो लुप्' (३२६) सिलुप् । एवम्-उपचर्मम् । अनेन अत्समासान्त: → अ । 'नोऽपदस्य०' (७।४।६१) अन्लुक् । सि । 'अमव्ययीभाव०' (३।२।२) अम् ।
[प्रतिसाम, प्रतिसामम् ] प्रतिगतं साम्नः = प्रतिसाम । प्रथमा सि । 'अनतो लुप्' (३।२।६) सिलुप् । एवम्- प्रतिसामम् । अनेन अत्समासान्तः → अ । 'नोऽपदस्य०' (७।४।६१) अन्लुक् । सि । 'अमव्ययीभावस्या०' (३।२।२) अम् ।
[अनुलोम, अनुलोमम्] अनुगतं लोम्नः = अनुलोम । प्रथमा सि । 'अनतो लुप्' (३।२।६) सिलुप् । द्वितीये अनेन अत्समासान्तः → अ । 'नोऽपदस्य तद्धिते' (७।४।६१) अन्लुक् । सि । 'अमव्ययीभावस्या०' (३।२।२) अम् । पूर्वेण नित्ये प्राप्ते विकल्पः छा।
गिरि-नदी-पौर्णमास्याग्रहायण्यपञ्चमवाद् वा ॥ ७।३।१० ॥ [गिरिनदीपौर्णमास्याग्रहायण्यपञ्चमवात् ] गिरिश्च नदी च पौर्णमासी च आग्रहायणी च अपञ्चमवर्ग्यश्च = गिरिनदीपौर्णमास्याग्रहायण्यपञ्चमवर्यम, तस्मात् ।
[वा] वा प्रथमा सि । • [अन्तर्गिरम्, अन्तर्गिरि] गिरेरन्तः = अन्तर्गिरम्, अन्तर्गिरि । 'पारे-मध्ये-ऽग्रे-ऽन्तः षष्ठ्या वा' (३।१।३०) इत्यादिना समासः । अनेन प्रथमे अत्समासान्तः → अ । 'अवर्णेवर्णस्य' (७।४।६८) इलुक् । सि । 'अमव्ययीभावस्याऽतोऽपञ्चम्याः' (३।२।२) अम् । द्वितीये 'अनतो लुप्' (३।२।६) लुप् । एवमग्रेऽपि ज्ञेयम् ।
[उपगिरम्, उपगिरि ] गिरेः समीपम् = उपगिरम्, उपगिरि । [ उपनदम, उपनदि] नद्याः समीपम् = उपनदम्, उपनदि । 'क्लीबे' (२।४।९७) हुस्वः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org