________________
२३२
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां ढुण्ढिकायां ।
[महिषाक्षो गुग्गुलः] महिषस्याक्षीव = महिषाक्षो गुग्गुलः । अनेन अतसमासान्तः → अ । 'अवर्णेवर्णस्य' (७।४।६८) इलुक् ।
[कचराक्षमश्वानां मुखप्रच्छादनं बहुच्छिद्रकम्] कचराक्षीव कचराक्षमश्वानां मुखप्रच्छादनमक्षिकाहरणं बहुच्छिद्रकम् ।
[अजाक्षि ] अजाया अक्षि = अजाक्षि । सि । 'अनतो लुप्' (१।४।५९) सिलुप् । [ उपाक्षि ] अक्ष्णो: समीपम् = उपाक्षि । सि । 'अनतो लुप्' (१।४।५९) सिलुप् । [वामाक्षि ] वामं च तदक्षि च = वामाक्षि । सि । 'अनतो लुप्' (१।४।५९) सिलुप् ॥छ।।
सं-कटाभ्याम् ॥ ७॥३८६ ॥ [संकटाभ्याम्] सं च कटश्च = संकटौ, ताभ्यां = संकटाभ्याम् । पञ्चमी भ्याम् ।
[समक्षम्] सङ्गतमक्ष्णा = समक्षम् । अनेन अत्समासान्तः → अ । 'प्रात्यव-परि-निरादयो गत-क्रान्त-क्रुष्टग्लान-क्रान्ताद्यर्थाः प्रथमाद्यन्तैः' (३।१४७) इत्यादिना समासः । यद्वा समीपमक्ष्णः = समक्षम् । अनेन अत्समासान्तः → अ । 'अवर्णेवर्णस्य' (७।४।६८) इलुक् ।
[ कटाक्षः] कटस्याक्षि = कटाक्षः । अनेन अत्समासान्तः → अ । 'अवर्णेवर्णस्य' (७।४।६८) इलुक् ।। 'लक्षणेनाऽभि-प्रत्याभिमुख्ये' (३।१।३३) इत्यादिना समासः । प्राण्यङ्गार्थं वचनम् ॥छ।
प्रति-परो-ऽनोरव्ययीभावात् ॥ ७।३।८७ ॥ [प्रतिपरोऽनोः] प्रतिश्च परश्च अनुश्च = प्रतिपरोऽनु, तस्मात् ।
[अव्ययीभावात् ] 'व्यंग् संवरणे' (९९३) व्ये, नपूर्व० । न व्ययति-न यातीत्यव्ययम् । 'अच्' (५।१।४९) अच्प्र० → अ । 'नजत्' (३।२।१२५) न० → अ० । 'भू सत्तायाम्' (१) भू । अनव्ययोऽव्ययो भवतीति अव्ययीभावः । 'वा ज्वलादि-दु-नी-भू-ग्रहा-ऽऽस्रोर्णः' (५।१६२) णप्र० → अ । 'नामिनोऽकलि-हलेः' (४।३।५१) वृद्धिः औ । 'ओदौतोऽवाव्' (१।२।२४) आव् । 'कृ-भ्वस्तिभ्यां कर्म०' (७२।१२६) विप्र० । 'ईश्च्वावर्णस्या०' (४।३।१११) अ० → ई० । 'अप्रयोगीत्' (१।१।३७) विलुक्, तस्मात् ।
[प्रत्यक्षम्] अक्षिणी प्रति = प्रत्यक्षम् । अनेन अत्समासान्त: → अ । 'अवर्णवर्णस्य' (७।४।६८) इलुक् ।
[परोक्षम् ] परसमानार्थः परस्शब्दोऽव्ययम् । अक्ष्णोः परं = परोक्षम् । 'राजदन्ताऽऽदिषु' (३।१।१४९) इत्यनेन परस्शब्दस्य पूर्वनिपातः । अनेन अत्समासान्तः → अ । 'अवर्णेवर्णस्य' (७।४।६८) इलुक् । अत्ययेऽव्ययीभावः । 'विभक्ति-समीप-समृद्धि-व्युद्ध्यर्थाभावा-ऽत्यया०' (३।१।३९) इत्यादिना ज्ञेयः ।
[अन्वक्षम् ] अक्ष्णः समीपमन्वक्षम् । अनेन अत्समासान्तः । [प्रत्यक्षोऽर्थः ] प्रत्यक्षमत्रास्ति । 'अभ्रादिभ्यः' (७।२।४६) अप्र० । 'अवर्णेवर्णस्य' (७४।६८) इलुक् ।
अक्षशब्देनेन्द्रियपर्यायेण सिद्धे प्रत्यादिभ्यः परस्याक्षि(क्ष)शब्दस्याव्ययीभावे प्रयोगो मा भूदिति वचनम् ॥छा।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org