SearchBrowseAboutContactDonate
Page Preview
Page 254
Loading...
Download File
Download File
Page Text
________________ सप्तमाध्यायस्य तृतीयः पादः ॥ २३१ [हस्तिवर्चसम्] हस्तिनो वर्चः = हस्तिवर्चसम् । अनेन अत्समासान्तः → अ । सि । 'अमव्ययी०' (३।२।२) सि० → अम् । 'समानादमोऽतः' (१।४।४६) अलुक् । [राजवर्चसम्] राज्ञो वर्चः = राजवर्चसम् । अनेन अत्समासान्तः → अ । सि । 'अमव्ययीभाव०' (३।२।२) सि० → अम्० । 'समानादमोऽतः' (१।४।४६) अलुक् । [पल्यवर्चसम्] पल्यस्य वर्चः = पल्यवर्चसम् । अनेन अत्समासान्तः → अ । सि । 'अमव्ययीभावस्याऽतोऽपञ्चम्याः' (३।२।२) सि० → अम् । 'समानादमोऽतः' (१।४।४६) अलुक् । पल्यं कटकृतं पलालवर्तिकृतं वा धान्यस्य भाजनम्, हस्तिविधा वा पिण्डः । [ नृपाः सोमार्कवर्चसः ] नृपाः-प्रथमा जस् । सोमार्कवत् वर्षो येषां ते = सोमार्कवर्चसः । [कथं त्विषिमान् राजवर्चस्वीति ] राज्ञो वर्चः = राजवर्चः । राजव!ऽस्यास्ति = राजवर्चस्वी । 'अस् तपो-मायामेधा-स्रजो विन्' (७२।४७) विन्प्र० । स् इति । समासान्तविधिरनित्यत्वात् एतच्च 'ऋक्-पू:-पथ्यपोऽत्' (७३७६) इति निर्देशात् सिद्धम् ॥छ। प्रतेरुरसः सप्तम्याः ॥ ७३८४ ॥ [प्रतेः] प्रति पञ्चमी ङसि । [ उरसः] उरस् पञ्चमी ङसि । [सप्तम्याः] सप्तमी पञ्चमी ङसि । [प्रत्युरसम्] उरसि [प्रति]वर्तते = प्रत्युरसम् । अनेन अत्समासान्तः → अ । विभक्त्यर्थेऽव्ययीभावः । [प्रत्युरसम्] उरसि प्रतिष्ठितं = प्रत्युरसम् । अनेन अत्समासान्तः → अ । 'प्रात्यव-परि-निरादयो०' (३।११४७) इत्यादिना तत्पुरुषः । [प्रत्युरः] प्रतिगत उरः, उरः प्रति वा = प्रत्युरः । सि । 'अनतो लुप्' (१।४।५९) लुप् । 'प्रात्यव-परि०' (३।११४७) इत्यादिना, 'लक्षणेनाऽभि-प्रत्याभिमुख्ये' (३।१।३३) इत्यादिना समासः क्रमेण ज्ञेयः ॥छ।। अक्ष्णोऽप्राण्यङ्गे ॥७।३।८५ ॥ [अक्ष्णः] अक्षि पञ्चमी ङसि । 'दध्यस्थिसक्थ्यक्ष्णोऽन्तस्याऽन्' (१।४।६२) अन्तस्य अन् । 'अनोऽस्य' (२।१।१०८) अलुक् । [अप्राण्यङ्गे] प्राणा विद्यन्ते यस्य सः = प्राणी । 'अतोऽनेक०' (७।२।६) इन् । प्राणिनोऽङ्ग = प्राण्यङ्गम् । न प्राण्यङ्गम् = अप्राण्यङ्गम्, तस्मिन् । [लवणाक्षम् ] लवणस्याक्षि, लवणमक्षीवेति वा = लवणाक्षम् । अनेन अत्समासान्तः → अ । 'अवर्णेवर्णस्य' (७।४।६८) इलुक् । 'उपमेयं व्याघ्राद्यैः साम्यानुक्तौ' (३।१।१०२) इत्यनेन समासः । [पुष्कराक्षम् ] पुष्करमक्षीव = पुष्कराक्षम् । अनेन अत्समासान्तः → अ । 'अवर्णेवर्णस्य' (७४/६८) इलक् । [गवाक्षः] गोरक्षीव = गवाक्षः । अनेन अत्समासान्तः → अ । 'अवर्णेवर्णस्य' (७४/६८) इलुक् । [रुद्राक्षम् ] रुद्रस्याक्षीव = रुद्राक्षम् । अनेन अत्समासान्तः → अ । 'अवर्णेवर्णस्य' (७।४।६८) इलुक् । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004232
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 07
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2014
Total Pages450
LanguageHindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy