________________
२२६
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां दुण्ढिकायां ।
[उभाबाहु] उभौ बाहू अस्मिन् = उभाबाहु । विभक्त्यलुक्-पादस्य पद्भावः-समानस्य सभावश्चेत्यादि सर्वं निपातनात् सिद्धम् । क्रियाविशेषणाच्चान्यत्र न भवति । [द्विदण्डा] द्वौ दण्डावस्यां शालायां = द्विदण्डा । 'आत्' (२।४।१८) आप्प्र० → आ । [द्विमुसला] द्वौ मुसलावस्यां शालायां = द्विमुसला । 'आत्' (२।४।१८) आप्प्र० → आ ॥छ।।
ऋक्-पूः-पथ्यपोऽत् ॥ ७॥३७६ ॥ [ऋक्पूःपथ्यपः] ऋक् च पूश्च पन्थाश्च अप् च = ऋक्पू:पथ्यप्, तस्मात् । [अत् ] अत् प्रथमा सि ।।
[अर्द्धर्चः(चम्)] ऋचोऽर्द्धम् = अर्द्धर्चम् । अनेन अत्समासान्तः → अ । 'समेंऽशेऽर्द्ध नवा' (३१५४) समासः । 'अवर्णस्येवर्णादिनैदोदरल्' (१२।६) अर् ।
[उपर्चम् ] ऋचः समीपमुपर्चम् । “विभक्ति-समीप-समृद्धि-व्यूद्ध्यर्थाभावा-ऽत्यया-ऽसंप्रति-पश्चात्-क्रम-ख्यातियुगपत्-सदृक्-सम्पत्-साकल्यान्तेऽव्ययम्' (३।१।३९) इत्यादिना समासः । अनेन अतसमासान्तः → अ । 'अवर्णस्ये०'. . (१।२।६) अर् ।
[सप्तर्च सूक्तम् ] सप्त ऋचोऽस्मिन् = सप्तच सूक्तम् । अनेन अत्समासान्तः → अ । 'अवर्णस्ये०' (१।२।६) अर् ।
[उच्चारितर्चः] उच्चारिता ऋचो यत्र सः = उच्चारितः । अनेन अत्समासान्तः → अ । 'अवर्णस्ये.' (१।२।६) अर् ।
[ श्रीपुरम् ] श्रियाः पू:-श्रीश्चासौ पूश्चेति वा = श्रीपुरम् । अनेन अत्समासान्तः → अ । [पिष्टपुरम् ] पिष्टपुर् मांडणीयइ । पिष्टस्य पू:, पिष्टा चासौ पूश्च = पिष्टपुरम् । अनेन अत्समासान्तः → अ ।
[त्रिपुरम्] त्रयाणां पुरां समाहारः = त्रिपुरम् । उत्तरपदस्याकारन्तत्वाभावात् स्त्रीत्वाभावः, किन्तु अन्यस्तु सर्वो नपुंसकः । अनेन अत्समासान्तः → अ ।
[स्फीतपुरो देशः ] स्फीता पूर्यस्मिन् देशे = स्फीतपुरो देशः । अनेन अत्समासान्त: → अ। [जलपथः] जल-पथिन् । जलस्य पन्थाः = जलपथः । [स्थलपथः] स्थले पन्थाः = स्थलपथः । [ उपपथम् ] पथः समीपमुपपथम् । [प्रतिपथम्] पन्थानं प्रति = प्रतिपथ:(थम्) ।
[विशालपथं नगरम् ] विशालः पन्था यस्मिन् = विशालपथः(थं) नगरम् । अनेन सर्वत्र अत्समासान्त: → अ । 'नोऽपदस्य तद्धिते' (७।४।६१) इन्लुक् ।
[द्वीपम् ] द्वि-अप् मण्ड्यते । द्विर्गता आपोऽस्मिन् = द्वीपम् । अनेन अत्समासान्तः → अ । 'व्यन्तरनवर्णोपसर्गादप ईप्' (३।२।१०९) अप्० → ईप० । 'समानानां तेन दीर्घः' (१२२२१) दीर्घः ।
www.jainelibrary.org
Jain Education International
For Personal & Private Use Only